________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ यजापुरुषीयः
चरक-संहिता। हिरण्यानस्तु नेत्याइ न ह्यात्मा रसजः स्मृतः । नातीन्द्रियं मनः सन्ति रोगाः श दादिजास्तथा ॥ षडधातुजस्तु पुरुषो रोगाः षड्वानुजात्तथा।
राशिः षड्धा जो ह्यष संपायः परीक्षितः ॥ ७॥ गङ्गाधरः-हिरण्येत्यादि। तथु ला वायॊविदवचनं कुशिको हिरण्याक्ष स्तन्नेत्याह । रसनानि भूतानि रसजाश्च तेषां विकारा इति यदुक्तं तन्न । कस्त्रादिति ? अन आह-न ह्यात्मेत्यादि । हि यस्मादात्मा न रसजो न च मनश्चातीन्द्रियं रसनं न च सर्वे रोगा रसना यतो रोगाः शब्दादिजाश्च सन्ति इति।
तहि कुतो जायते पुरुषः कुतश्च तस्य रोगा जायन्त इति ? अत आहषड्धातुजस्वित्यादि। पञ्चमहाभूनानि खं वायुनौतिरापो भूरिति आत्मा च चेतनाघातुरव्यक्तं नामेति षड्भ्यो धातुभ्यो यः पुरुषो जातः स षड्धातुजः पुरुषः, तस्मादेष राशिः पुरुषो जायते। तथा तस्य रोगाश्च पधातुजाः षड़धातुपुरुषाज्जायन्ते । तहि कुतो बुद्धनादयोऽस्य जायन्त इति ? अत आहराशिरित्यादि। एष राशिश्वाविंशतेस्तत्त्वानां सङ्घातो यस्मात् षड़धातुज एवादाः साङ्ख्यैर्महर्षिभिः परीक्षितः। वक्ष्यते-“खादयश्चेतनाधातुषष्ठाश्च पुरुषः स्मृतः” इति। तद्यथा-प्राक् सर्गादिदं तमोभूतं यदासीत् तत् खलु मूलं मूलानां मूलामावादमूलम् । तदसत् । क्रियागुणव्यपदेशाभावात् । संदेवासत् । प्राक्सर्गात् क्रियागुणव्यपदेशाभावात् सतः क्रियागुणव्यपदिष्टादर्थान्तरखात्। न बसदेवासत्। न ह्यसतः सदुत्पद्यते। उपादानमनुपमृदेव सतः प्रादुर्भावप्रसङ्गात् । न हि खपुष्पादुत्पद्यते फलम् । उपादानमुपदैरव प्रादुर्भावनियमात् । यथा वीजमुपमृदावाङ्कुरो जायते। जनिष्यमाणोऽङ्करो हि वीजमुपमृद्य प्रादुर्भवति। क्रमनिर्देशाच्च । क्रमश्चायं वीजं परिणमदव्यहान्तरेण जायते, सोऽपि व्यहः पूव्वव्यहविनाशे व्यूहान्तरत्वेन जायत इत्येवं पूब्वेपूर्वव्यहनाशानन्तरं कार्यरूपेण प्रादुर्भवतीति नासतः सदुत्पत्तिः। सैवासत् खलु सदेव शक्तिरेव मूलं ब्रह्म सव्वेषां कार्याणां यानि मूलानि तेषां मूलम् । विकारयो; कारणं भवति : किं वा, आपो निर्वृत्तिहेतव इति रसानां, किं वा यस्माद रसवत्य आपः, तस्मात् ता निवृत्तिहेतव इति योजना ॥ ५॥६॥
चक्रपाणिः-न यात्मेत्यादो नातीन्द्रियं मनो रस स्मृतमिति योजना, यस्मादतीन्द्रियं मन
For Private and Personal Use Only