________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ वा अध्यायः )
सूत्रस्थानम् ।
।
वायविदस्तु नेत्याह न ह्येकं कारणं मनः । नर्ते शरीराछारीर- रोगाणां मनसः स्थितिः ॥ रसजाति तु भूतानि व्याधयश्चाष्पृथग्विधाः पोहि रसवत्यस्ताः स्मृता निर्ऋत्तिहेतवः ॥ ६ ॥ बुद्धिसमयोगेन समयोगयुक्तानि कर्माणि स्वयं मनो वाग्देहाभ्याञ्च करोति तत्फलं धर्मः सुखञ्चारोग्यं भवति । यदा तम उद्रिक्तं भवति तदा बुद्धिविषमयोगेण विषमयोगयुक्तानि कर्माणि स्वयं मनः शरीरवाभ्याञ्च करोति । तत्फलमधम्म दुःखञ्चातुग्र्यञ्च भवतीति । यदा तु मनः सत्त्वसंज्ञकं जीवस्पृक् ताभ्यां धर्माधर्माभ्यां परलोकं पुरुषं नीखा तत्र भोगावसाने पुनधर्माधर्माभ्यां ताभ्यां सूक्ष्मशरीरिणं परलोकादवक्रामयगर्भाशयमनुप्रवेशयति तदा राशिपुरुषो जायत इति यन्मनोजः पुरुषस्तन्मनोजा रोगा इति ।। ५ ।। गङ्गाधरः तच्छरलोमवचनं श्रुखा वायविदो राजपिंस्तन्ने त्याह । शरीरस्य प्रागुत्पत्तिर्विकाराणाञ्च प्रागुत्पत्तिरिति यदुक्तं तन्न । कस्मात् ? –नवकं कारणं मनः । हि यस्मादेकं मनो न शरीरमागुत्पत्तौ कारणम्, न च रोगाणां प्रागुत्पत्तौ कारणम् । कारणान्तरादुत्पत्तौ मन उपपादकम् । ततः कारणान्तरमस्ति । तच्च किमिति ? अत आहनर्त्त इत्यादि । स्थूलादस्माच्छरीराहते शारीर रोगाणां न स्थितिः न च मनसः स्थितिः । तर्हि कुतः पुरुषो जायते कुतश्च रोगा इति ? अत आह-रसजानीत्यादि । देवनरादिभूतानि प्राणिनो रसजानि मातापित्रोराहारजरससम्भूतशुक्रशोणितगर्भिण्याहाररसेभ्यो जायन्ते । भूतानि प्राणिनस्तेषां व्याधयश्वापृथग्विधाः शुक्रदोपशोणितदोषाहाररसजा एव । ननु रसनार्थी रसः कथमुपयुज्यते इति ? अत आह— आपो हीत्यादि । हि यस्मादापो रसवत्यस्ता एवापः पाञ्चभौतिकरसस्य निट त्तिहेतवः । तत्पश्चभूतारब्धेऽद्भ्य एवं मधुरायो निर्व्वर्त्तते । इति ॥ ६ ॥
मनसः
-
इति । नर्ते शरीरात् शारीरा वातादिजन्याः शोषादयस्तिष्ठान्त, तथा न मनसः स्थितिर्वा ऋते शरीरादिति योज्यम्; रजस्तमः परीतस्य हि मनसो नित्यं शरीर एवं स्थितिः; यत् तु निर्दोषं मनः, तत् तु पुरुषस्य नापि च व्याधेः कारणमिति भावः । रसजानीत्यादी स्मृता निर्ऋति : tra इति व्याधिपुरुषयोः ; एतेन व्याधिपुरुषजनकरसकारणत्वेनापः कारणकारणतया पुरुष* व्याधयश्च पृथग्विधा इति चक्रः ।
For Private and Personal Use Only
८५५