________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५४
[यजःपुरुषोयः
चरक-संहिता। शरलोमा तु नेत्याह न ह्यात्मात्मानमात्मना । योजयेदव्याधिभिर्दुःखैदुःखद्वषी कदाचन ॥ रजस्तमोभ्यान्तु मनः परीतं सत्त्वसंज्ञकम् । शरीरस्य समुत्पत्तौ विकाराणाञ्च कारणम् ॥ ५ ॥
स्यात् तत्फलानि सुखादीनि उपभुङ्क्त। बुद्धिविषमयोगेण यां वाङ्मनःशरीरपत्तिमाचरति तद्विषमयोगकृतकम्मफलमधम्मः शारीरमानसदोषवैषम्यञ्च रोगस्तत्फलानि दुःखान्युपभुङ्क्त । एवं ततफलानि स्वप्नेऽपि स एवाव्यक्ताख्यश्चेतनाधातुरात्मा त्रयोविंशतितत्त्वोपाहितस्तैजसो नामान्तःप्रशः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तः सुखानि दुःखानि चोपभुङ्क्त इति । नन्वहिताहाराचारादितो दुःखानि हिताहाराचारादितः सुखानि भवन्ति, कुत आत्मजानि भवन्तीति ? अत आह-न हात इत्यादि। हि यस्मात् चेतनाधातोरात्मन ऋते सुखदुःखयोः प्रवृत्तिरुत्पत्तिने भवति । यदि बुद्धिसमयोगात् कर्म करोति ततो धर्मश्वारोग्यञ्च मुखं जायते। यदि विषमयोगेण बुद्धया कर्म चाचरति तदा कर्मणां वैषम्यादधौ धातुवैषम्यं चातुर्य दुःखं जायत इति ॥४॥
गङ्गाधरः--शरलोमेत्यादि । तच्छुखा पारीक्षिवचनं नेत्याह शरलोमा ऋषिः। आत्मजः पुरुष इति यदुक्तं तदसम्यक् । तस्य रोगाश्चात्मजा इति यदुक्तं तन्न। कस्मात् ? न ह्यात्मेत्यादि। हि यस्मादात्मा दुःखद्वेपी स आत्मना निजेनात्मानं स्वं दुःखैयाधिभिः कदाचन न योजयेत् । तस्मात् नात्मजा रोगा इध्यन्ते न च पुरुष आत्मज इति। तहि भवता कुतः पुरुषप्रागुत्पत्तिः कुतस्तस्य रोगाणामुच्यत इति ? अत आह-रजस्तमोभ्यामित्यादि। सत्त्वसंज्ञकं मनो रजस्तमोभ्यां परीतं सत् पुरुषशरीरस्य समुत्पत्तो कारणं तस्य विकाराणाश्च समुत्पत्तो कारणं भवति। रजो हि प्रवर्तकं तमो मोहात्मकम् । यदा तु रज उद्रिक्तं भवति तदा शरीरारोग्यविकारादीनि भुक्त इति योजना, कर्मसहायस्यात्मनः शरीरविकारादिकर्तृत्वात् कारणत्वमिति भावः ; एतदेव व्यतिरेकेणाह-न हयत इत्यादि। चेतनाधातुरात्मा, सुखदुःखयोरिति सुखदुःखसाधनयोः नीरुशरीरविकारयोरित्यर्थः ॥ ४॥
चक्रपाणिः-मन इत्युक्त मन्यतेऽनेनेति व्युत्पत्त्या आत्मापि शङ्कयते, तदुक्त ---"सत्त्वसंज्ञकम्"
For Private and Personal Use Only