________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ अध्याय: सूत्रस्थानम् ।
८५३ पाई विस्तारीक्ष्याने मौद्गल्यो वाक्यम्ब्रत् ि ।
आत्मजः पुरुषो रोगा आलजा कारणं हि सः॥ स चिनोपभुक्त च कर्म कर्मफलानि च । न हाते चेतनाधातोः प्रवृत्तिः सुखा खयोः ॥ ॥ गङ्गाधरः-तद्वचनं श्रुखा यो य ऋषियेदुवाच तदर्श ति–पारीक्षिरित्यादि। राशिपुरुषस्य देवनरादेश्चविंशतितत्त्वविकारसमुदायस्थ प्रागुन्पत्तो यावन्ति कारणानि तस्प पुरुषस्य रोगाणाश्च प्रागुत्पत्तौ यावन्ति कारणानि तावतां कारणानामेकैककारणवादमाश्रित्य शेषा ऋषयः प्रत्यूचुः। तत्र तेषु ऋषिषु मध्येऽग्र मौद्गल्यः पारीक्षिस्तत्पुरुषरोगयोः प्रागुत्पत्तो कारणं परीक्ष्य विचार्य वाक्यमब्रवीत् । यदब्रवीत् तदाह-आत्मज इत्यादि। आत्मा चेतनाधातुरव्यक्तं नाम महता जीवनात्मना प्रशयोपाहितः प्राज्ञः, स खलुअहङ्कारादिभिर्वाविंशत्या सूक्ष्मस्तावद्भिपाहितः सूक्ष्मशरीरी तैजसः, स पुनः पूर्वपूर्वभूतानुपविष्टपञ्चभूतोपाहित एव वैश्वानर इति त्रिधा। तस्मादेवात्मनः एष एष देवनरादिराशिपुरुषो जायत इत्यात्मजः पुरुषः। तस्य पुरुषस्य रोगाश्चात्मजास्तस्मादेवात्मनोऽजायन्त इत्यात्मजा इति यज्जःपुरुषस्तज्जा एव तस्यामयाः। कस्मात् ? कारणं हि स इति। हि यस्मात् स आत्मैव कारणं भवति। कथं ? स चिनोतीत्यादि। स आत्माऽव्यक्त चेतनाधातुस्थूलपञ्चभूतोपाहितः सन् वैश्वानरो नाम जागरितस्थानः सप्ताङ्ग एकोनविंशतिमुखः स्थूलमिदं शरीरं गृहीखा कर्म धमाधम्मसाधनं कर्म वाङ्मनःशरीरप्रवृत्तिमयोगातियोगमिथ्यायोगसमयोगर्बुद्धियागेन चिनोति चयं करोति । तत् कर्म कलानि चोपभुङ्क्त । जागरितः स्थूलं सवें विषयं सुखासुखानि बुद्धिसमयोगेन वाङ्मनःशरीरमत्तिं समां कराति तेन धम्मैः नोऽस्माकं संशयं काशिराजे च संशयमिति ब्याख्यानयन्ति ;-संशयद्वये चैकोऽत्र ऋषीणाम् "भास्मेन्द्रिय” इत्यादिना श्लोकेन दर्शितः संशयः, स च पुरुषस्थामयानाञ्च प्रा गुत्पत्तिं प्रथमोत्पत्ति प्रतीति व्याख्यानयन्ति , द्वितीयस्तु काशिपतेर्यथोक्त एव ॥३॥
चक्रपाणिः-आत्मजः पुरुष इत्यापि प्रश्नद्वयस्योत्तरम्, तत्र पूर्वप्रश्नस्य, पुरुषस्यामयानाञ्च कुत उत्पत्तिरित्येवंरूपस्य प्रश्नस्योत्तरम्-आत्मजः पुरुषो रोगाश्चेति, काशिपतिप्रश्नमात्रेऽप्युत्तरमेतत्-यत एवात्मतः पुरुषो जायते तत एव रोगा इत्यनुरूपमेव ; प्रश्नात्तरता स्वस्थ ग्रन्थस्य सुगमैव। कारणत्वे हेतुमाह-स चिनोतीत्यादि। चिनोति कर्म, कर्मफलानि च
For Private and Personal Use Only