________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। यजःपुरुषीयः
८५२
चरक-संहिता। तदन्तां काणि तिर्गमको वाचमर्थवित् । व्याजहासिमितिमभिष्टुत्याभिवाद्य च ॥ किं नु भोः पुरुो यजस्तजास्तरयामयाः स्मृताः । न वेत्युक्त नरेन्द्रण प्रोवाचर्षीन् पुनसुः ॥ सर्व एवानितज्ञान-विज्ञाच्छिन्नसंशयाः।
भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संश्यम् ॥३॥ संघातः खलु पुरुषसंशो देवनरादिसाधारणस्तस्य प्रागुत्पत्तिविनिश्चयेऽस्यामयानाञ्च प्रागुत्पत्तिविनिश्चये ॥२॥
गङ्गाधरः-कस्तां कथां पप्रच्छेति ? अत आह-तदन्तरमित्यादि । तदन्तरं राशिपुरुषस्य तस्य चामयानां प्रागुत्पत्तिविनिश्चये कथायामुपस्थितायां मध्येऽर्थवित् काशिपतिर्वामको नाम राजर्षि पिसमितिमृषीणां समवायं समूहमभिवाद्याभिष्टुत्य च वाचं व्याजहार। कां वाचमिति ? अत आह-किंन्वित्यादि। नु भो यजः पुरुषो यस्मात् कारणात् पुरुषो राशिसंशको देवनरादिर्जायते तस्य पुरुषस्यामयाश्च तज्जास्तस्मात् कारणाज्जाताः किं न वेति भवद्भिः स्मृता इति नरेन्द्रेण वामकेन काशिराजेनोक्तः पुनर्वसु.
पीनन्यान् तत्र समवेतान् प्रोवाच। किं प्रोवाचेति १ अत उच्यते-सर्व एवेत्यादि। भवन्त ऋषयः सबै एवामितज्ञानविज्ञानाभ्यां छिन्नसंशयाः काशिराजस्य संशयं छेत्तुमर्हन्ति । इति ॥३॥
चक्रपाणिः-तामेव परस्परप्रश्नरूपां कथां दर्शयति--तदन्तरमित्यादि। अन्तरशब्दः कालवचनः, यथा-"अपस्माराय कुन्ति वेगं किञ्चिदथान्तरम्' इति, किञ्चित्कालमित्यर्थः ; तेन तदन्तरमिति कथारम्भकाल इत्यर्थः ; काशी वाराणसी, तस्याः पतिः; तेषां बहुत्वाद् विशेषणं 'वामकः' इति। यस्माजातो यजः, तत एव पुरुषजनकात् कारणाजातास्तजाः ; न वेति अन्यतः पुरुषो जायतेऽन्यतश्च तस्य रोगा इत्यर्थः : नरेन्द्रेणेति काशिपतिनाना राजर्षिणा।
अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयो येषां ते तथा ; "भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम् इति पाठः सुगमः; "भवन्तोऽहन्ति नश्छेत्तु काशिराजे च संशयम्' इति तु पाठे,- नोऽस्माकं काशिराजेऽस्मन्मध्यगत इत्यर्थः, एतेन स्वपक्षे काशिराजे न व्यामोहन वचनं वक्तव्यमिति शिक्षयति ; चकारेणान्येषाञ्च ऋषीणां संशयं समुश्चिनोति ; अन्ये तु,
For Private and Personal Use Only