________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चविंशोऽध्यायः ।
अथातो यज्ञः पुरुषीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रं यः ॥ १ ॥ पुरा प्रत्यधम्र्माण भगवन्तं पुनर्व्वसुम् । उपासतां महर्षीणां प्रादुरासीदियं कथा ॥ आत्मेन्द्रियमनोऽर्थानां योऽयं पुरुषसंज्ञकः । राशिरस्यामयानाञ्च प्रागुत्पत्तिविनिश्चये ॥ २ ॥
गङ्गाधरः - अथ भेषजयोजनायां लङ्घनट हणादुपक्रमा न विना हिताहार सिध्यन्तीत्यतो योजनाचतुष्कानन्तरमाहारस्य हितलाहितत्वविज्ञानार्थम् अन्नपानचतुष्क आरभ्यमाणे समासेनान्नपानगुणोपदेशार्थं यज्जः पुरुषीयोऽभिधीयते - अथात इत्यादि । अत्र प्रश्नादौ किंतु भोः पुरुषो यज्ज इति पदस्यार्थं यज्जः पुरुष इति अधिकृत्य कृतोऽध्याय इति यज्जः पुरुषीयोऽध्यायः । शेषं सर्व्वं पूर्ववद्वाख्येयम् ॥ १ ॥
गङ्गाधरः - प्रश्नावतारार्थमाह – पुरेत्यादि ।
प्रत्यक्षणमिति तपःप्रभावात् साक्षात्कृतो धम्र्मो यस्य तम् । उपासतां उपासीनानां, तिङः परस्मै. पदसंज्ञाविधानसामर्थ्यात् तङामपि परस्मैपदत्वादिह शतृप्रत्ययः । प्रादुरासीत् प्रादुरभूत् । इयं कथा वक्ष्यमाणरूपा । किंविषया सा कथा ? तदाहआत्मेन्द्रियेत्यादि । आत्मेन्द्रियमनोऽर्थानां योऽयं प्रत्यक्षभूतो राशिः
चक्रपाणिः - य इमे योजनाचतुष्के पडुपक्रमा अभिहितास्तेऽन्नपानापेक्षयैव व्याधिहरणे समर्थाः, अतोऽन्नपानचतुष्कोऽभिधीयते, तत्रापि सङ्घ पेणान्नपानगुणाभिधायको यजः पुरुषीयोऽभिधीयते । तत्रादौ पुरुषच्याधिकारणनिश्चायकप्रकरणन्त्वाहारगुणप्रश्नावतारार्थं तथा पूर्वोक्तषडुपक्रमणीय रोगकारणज्ञानार्थञ्च 'यजः पुरुष' इति प्रश्नं प्राधान्येनाधिकृत्य कृतोऽध्यायो यज्जःपुरुषीयो ज्ञेयः । यद्यपि "पुरुषो यजः" इति प्रश्नक्रमः, तथापि प्रश्नार्थाऽत्र गृहीतः ॥ १ ॥
चक्रपाणिः - प्रत्यक्षधर्मत्वं तपःप्रभावात् इयमित्यग्रे वक्ष्यमाणा, कथा तत्त्वजिज्ञासार्थम् अन्योन्यपृच्छा | राशिर्मेलक आत्मेन्द्रियमनोऽर्थसमुदय इत्यर्थः अस्य राशेरामयानाञ्चोत्पत्तिविनिश्वये उत्पत्तिविनिश्चयविषयिणी कथा प्रादुरासीदिति सम्बन्धः ॥ २ ॥
;
* समेतानामिति वा पाठः ।
For Private and Personal Use Only