________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। विधिशोणितीयः
८५०
चरक-संहिता। रक्ताक्सेका ब्छास्त्राणां सतां सत्त्ववतामपि । सेवनान्मदमूर्छायाः प्रशाम्यन्ति शरीरिणाम् ॥ २६॥
तत्र श्लोको। विशुद्धञ्चाविशुद्धञ्च शोणितं तस्य हेतवः । रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम् ॥ मदमूर्छायसन्न्यास-हेतुलक्षणभेषजम् । विधिशोणितिकेऽध्याये सव्वमेतत् प्रकाशितम् ॥ २७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम चतुविंशोऽध्यायः ॥२४॥
इति योजनाचतुष्कः।। आहारद्रव्यखात् । पिप्पलीनां प्रयोगः पयसा पिप्पलीवर्द्धमानयोगः। चित्र कस्य वा पयसा रक्तिद्वयादिक्रमेण पिप्पलीवर्द्ध मानवद्वा प्रयोगः। रसायनानाम् अभयामलकादीनां प्रयोगः । कौम्भस्य दशाब्दिकस्य शताब्दिकस्य वा । रक्तावसेकादिति पुनर्मदभू यामित्यभिप्रायेण सुश्रुते रक्तमोक्षणे मूर्छितस्य यः प्रतिषेधः कृतस्तत् रक्तमोक्षणे यो मूच्छेति तस्यैव बोध्यः। सतां शास्त्राणां वेदपुराणादीनां पुप्यजनकानां सेवनादिति श्रवणपठनपाठनादितः । सतां सत्त्वक्तामपि सात्विकसत्पुरुषाणां सेवनात् शुश्रूषणसङ्गादित इति ॥२५॥२६॥
गङ्गाधरः-अध्यायाॉपसंहारार्थमाह-तत्र श्लोकावित्यादि। स्पष्टम् । योजनाचतुष्क इति चिकित्सायां भेषजयोजनायै चतुष्कश्चतुभिरध्यायैनिष्पादित इत्येकः प्रकारः ॥२७॥
अग्नीत्यादि पूर्ववत् । इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ मूत्रस्थानीय
चतुर्विंशविधिशोणितीयाध्यायजल्पाख्या चतुविंशी शाखा ॥२४॥ तिक्तस्य महतस्तथा तिक्तस्य षट्पलस्येति सम्बन्धः ; एते च तिक्तषट्पलमहतिक्तकघृते कुष्टचिकित्सिते वक्तव्ये। कौम्भं दशाब्दिकम् ॥ ६९-२७॥
इति योजनाचतुष्कः। इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां विधिशोणितीयो नाम चतुर्विशोऽध्यायः ॥२४॥
For Private and Personal Use Only