________________
Shri Mahavir Jain Aradhana Kendra
२४ अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
प्रबुद्धसंज्ञ' मतिमाननुबन्धमुपाचरेत् ।
*
ततः संरचितव्यो हि मनःप्रलयहेतुतः ॥ २४ ॥ स्नेहस्वेदोपन्नानां यथादो यलम् । पञ्च कर्माणि कुत मूर्च्छायेषु मदेषु च ॥ २५ ॥ अष्टाविंशत्योषधस्य तथा तिक्तस्य सर्पिषः । प्रयोगः शस्यते तद्वन्महतः षट्पलस्य च ॥ त्रिफलायाः प्रयोगो वा सघृतचौद्रशर्करः । शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा ॥ पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा । रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते ॥
ननु प्रबुद्धचित्तं संन्यासिनं कुतः पुनरेतैरुपाचरं दिति ? अत आह—मबुद्धेत्यादि । संन्याससंन्यस्तः पुमान् प्रतिबुद्धोऽपि संन्यासकरदोषानुबन्धवान् तस्मात् तदनुबन्धदोपप्रशमनार्थं प्रबुद्धसंज्ञमपि विस्मापनादिभिरुपाचरेत् । नन्वस्तु अनुबन्धो दोषाणां तेन किमिति ? अत आह— तत इति । ततोऽनन्तरमपि संन्यस्तो भवितुमर्हति तदारम्भकदोषानुबन्धात् । अतो हि यस्मात् ततोऽनन्तरं मनःप्रलयस्य हेतुतः संन्यासरूपमोहतः स पुमान् रक्षितव्यः पुनः प्रलयो यथा न भवितुमर्हतीति भावः ॥ २४ ॥
गङ्गाधरः— मदमूच्छयोः संन्यासस्य दोषनिम्मू लताहेतुक्रिया आह— स्नेहेत्यादि । पञ्च कर्माणि वमनादीनि प्रकरणात् । संन्यासे लब्धे मदमूर्च्छाययोरप्येकविधत्वात् तुल्या क्रिया योग्येत्यत आह-मूर्च्छायेषु मदेषु चेति । अष्टाविंशत्योषधस्य पानीयकल्याणघृतस्य । तिक्तस्य सर्पिष इत्यस्य महतः पटुपलस्येति चान्वयः । तेन महातिक्तघृतस्य षट्पलतिक्त घृतस्य च प्रयोगस्तद्वत् अष्टाविंशत्योषधस्य प्रयोगवत् शस्यते । तिक्तपट्पलमहातिक्तघृते कुष्ठचिकित्सिते वक्ष्यमाणे । सघृतक्षोद्रशकर स्त्रिफलायाः प्रयागः । शिलाजतुन. केवलस्य शुद्धस्य प्रयोगः रक्तिद्वयादिक्रमेणापयोगः सघृतक्षौद्रशर्केर एब । पयसाऽपि सघृतक्षौद्रशकरः प्रयोगः क्रमेणोपयोगः । पलमानमारभ्यति बोध्यम् अनुबन्धं सततम्, प्रल - हेतुत इति मोहहेतुतः । अष्टाविंशत्यौषधस्येति पानीयकल्याणस्य ; * संरक्षितम्यमिति चक्रः ।
For Private and Personal Use Only
८४६