________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः सूत्रस्थानम् ।
८५ नीलं वा यदि वा कृष्णमाकाशमथवारुणम् । पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ॥ वेपथुश्चाङ्गमईश्च प्रपीड़ा हृदयस्य च। कायं श्याशरुणा च्छाया मूर्छाये वातसम्भवे ॥ १५ ॥ रक्तं हरितवर्ण बा, वियत् पीतमथापि वा। पश्यंस्तमः प्रविशति सस्वेदः प्रतिबध्यते ॥ सपिपातः ससन्तापो रक्तपीताकुलेक्षणः । संभिन्नवाः पीतामो मूर्छाये पित्तसम्भवे ॥ १६ ॥
एते-इति-पदेन पूगकोद्रवादिमदव्यवच्छेदः, तेपां न त्रैविध्यमिति भावः। एतेन मद्यविपजयोरपि मदयोरस्य रौघिरस्य लक्षणवत् लक्षणानीति सूचितम् ॥१४॥
गङ्गाधरः-क्रमिकखात् मूर्खायलक्षणान्याह-नीलमित्यादि। यद्यपिआकाशस्य वस्तुतो रूपाभावान्न चाक्षुपं भवति तथापि वातादिदुष्ट्या नयने जातं नीलादिरूपमधिकं तदाधिक नीलादिरूपमाकाशं व्यामोतीत्याकाशं नीलादिकं पश्यति । यथा ज्योत्स्नातपतमांस्याकाशं व्याप्नुवन्तीति ज्योत्स्नाद्यन्वितमाकाशं पश्यति तथा। न तु शुक्तौ रजतदर्शनवद रज्ज्वां सर्पदर्शनवद्वा । पैत्तिके कफजे चैवं बोध्यम्। वायोश्चलत्वेन शीघ्र प्रतिबोधः। श्यावारुणा च्छायेति श्यावच्छायारुणच्छाया। वातजा चेयं मूर्छा श्यावारुणा च्छाया क्लेशमरणाय भवतीति कश्चिदाह----'वायवी तु विनाशाय क्लेशाय महतेऽपि वा” इति वचनात्, तन्न। वायुकृतश्यावारुणच्छाया नारिष्टम् । किन्तु या श्यावारुणप्रतिच्छाया स्यादनिमित्ता तस्या अरिष्टखमेवेति बोध्यम् । पित्तात् कफात् वानपित्तकफाञ्च, एतेन तेपामप्येतदेव लक्षणं वातादिकृतं भवतीति भावः ॥१४॥
चक्रपाणिः --- मूच्छीयलक्षणमाह-नीलं वेत्यादि। तत्र वातमूर्छाये श्यावारुणा च्छाया रिष्टरूपत्वान्मरणाय स्याद वायव्यत्वादिति चोदंघ कुन्ति, उक्त हि-"वायव्या सा विनाशाय क्लेशाय महतेऽपि चा" इति ; तन्न, अनिमित्ता हि च्छाया रिष्टं विनाशयति, न तु दृश्यमाननिमित्ता; इह च वातसम्बन्धो दृश्यत एव निमित्तम् ; किंवा “क्लेशाय महतेऽपि वा" इति
For Private and Personal Use Only