________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८४६
चरक संहिता | मेघसङ्काशमाकाशमावृतं वा तमोघनैः । पश्यंस्तमः प्रविशति चिराञ्च्च प्रतिबुध्यते ॥
गुरुभिः प्रावृतैरङ्गर्यथैवाद्रेण चर्मणा । सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे ॥ १७ ॥ सकृतिः सन्निपातादपस्मार इवागतः । स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ॥ १८ ॥ दोषेषु मदमूच्या गतवेगेषु देहिनाम् । स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना ॥ १६ ॥ रक्तमित्यादि पित्तमूर्च्छायलक्षणम् । मेघेत्यादि । मेघसङ्काशमित्यादिकफजमूर्च्छायलक्षणम् । अत्र तमोघनैरिति तमोभिश्च घनैश्च तमोव घनैव । चिरादिति कफस्य चिरकतृत्वात् । सकृतिरित्यादिना सन्निपातजमूर्च्छायलक्षणम् । अपस्मार इवागतस्तमःप्रवेशकालेऽपस्मारे यथा भवति तथा सान्निपातिक मृच्छये स्यात् । विशेषमाह - विनेत्यादि । बीभत्स - चेष्टितानि फेनोमन दन्तखादनाङ्गविक्षेपणनेत्र वैकृतादीनि भवन्त्यपस्मारे तानि तु न सान्निपातिकमूर्च्छाये भवन्तीति भेदः । स सन्निपातजमृच्छयः । एतेनास्या साध्यत्ववचनेनान्येषां साध्यलं बोध्यम् । मदस्य मयमदाकृतिखेन अल्पतमः प्रवेशो मदे भवति मूर्च्छाये च तमः प्रवेश एव भवतीति भेदो दर्शितः ॥ १५ - १८ ॥
गङ्गाधरः- मदमूच्र्छाययोः साध्यत्वादि साधम्म्र्म्यश्च दर्शयन् सन्न्यासे वैधम्र्म्य दर्शयति - दोषेष्वित्यादि । गतवेगेषु अतीत वेगेषु । कृतवेगानां दोषाणां वेगकरणकाले अल्पवलखेन स्वल्पव हुतमःप्रवेशन कारित्वं वेगापगमे तु दोषाणां श्रान्तक्रुद्धपुरुषवत् दुब्बैलखात् मदाश्च मूर्च्छायाश्च स्वयमेवोपशाम्यन्ति । दौर्बल्ये हि न गहेतुर्दृश्यते लोके इति मदमूर्च्छाययोः साधम्म्य, सन्न्यासे त्वनयोर्वैधम्म्यैमाह – सन्न्यासो नौषधैविनेति ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
विधिशोणितीयः
वचनादेव वायव्य च्छायाया मारकत्वं व्यभिचरितम् । तमोभिर्धनैश्चेति तमोघनैः, किंवा तमोभिरेव घनैः । बिना बीभत्सचेष्टितैरिति दन्तखादनाङ्गविक्षेपणादिकं विना ॥। १५ - १८ ॥
चक्रपाणि: - सन्न्यासस्य मूर्च्छादिभ्यो भेदकं लक्षणमाह--दोषेध्वित्यादि । कृतवेगेविति हृतवेगेषु तथा कृतवेगेषु इति वा पाठः ।