________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः
सूत्रस्थानम् ।
८४३ मलिनाहारशीलस्य रजोमोहावृतात्मनः । प्रतिहत्याचतिष्ठन्ने जायन्ते व्याधयस्तदा ॥ मदमूर्छायसंन्यासास्तेषां विद्याद विचक्षणः । यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु ॥ १२॥ दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते । मनो विनोभयन् जन्तोः संज्ञां संमोहयेत् तदा ॥ पित्तमेवं कश्चवं मनो विक्षोभयन्तृणाम् ।
संज्ञां नयत्याकुलतां विशेषश्चात्र कथ्यते ॥ १३ ॥ मोहाद्यसम्भवात्। हृदयमात्रोपघाते हि चतन्याभावो न सम्भवति, सम्भवति च चैतन्याल्पता। मला इति दुष्टवातपित्तकफानां संज्ञा। यदुक्तं-“शरीरदूषणादोषा मलिनीकरणान्मलाः । धारणाद्धातवो ज्ञ या वातपित्तकफास्त्रयः॥" इति।
वातादीनां दुष्टिहेतुमाह-मलिनेत्यादि। मलहेतवो मलिनाः, ते च रजस्तमोवातादिदुष्टिजनका ये आहारा भवन्ति तच्छीलस्य । रजोमोहेति रजस्तमोभ्यामाटत आत्मा मनो यस्य तस्य तथा। मोहहेतुखात् मोहशब्देन 'तम उच्यते। मानसदोपौ हि रजस्तमश्च। स्वस्वहेखाहाराद् दुष्टाभ्यान्तु ताभ्यां दृषितमनसः पुनर्वातादिहेखाहारात् पृथक् पृथक् वातादयः समस्ता वा मलाः सरक्तमनोवहस्रोतांसि प्रतिहत्यावतिष्ठन्ते यदा तदा मदमूर्छायसन्न्यासा व्याधयो जायन्ते। तेषां मदादीनां हेतुलिङ्गोपशान्तिषु एकरूपासु यथोत्तरं बलाधिक्यं विचक्षणो विद्यात्। मदे तु हेखल्पबलखाल्लिङ्गाल्पवलखं ततश्च शान्तिक्रियाया अप्यल्पवलद्रव्यसाध्यत्वं नाधिकद्रव्यसाध्यभेषजापेक्षा। ततो मूर्छाये हेतुबलाधिक्याल्लिङ्गबलाधिक्यम्। ततः शान्तिक्रियायामधिकवलभेषजापेक्षा ततोऽपि सन्यासे इति ॥१२॥
गङ्गाधरः-एतच्च सूत्ररूपं भाष्येण स्वयं व्याकरोति-दुर्बलमित्यादि । दुबेलमिति रजोमोहातत्वेन, चेतसः स्थानं हृदयं दुब्बेलं यदा कुपितो वायुः प्रतिपद्यते तदा जन्तोमेनो विक्षोभयन् संज्ञां मोहयेत्। पित्तमेव मिति अयनीभूतम्, यदुक्तम्- "सत्वादीनां पुनः केवलं शरीरमयनीभूतम्" इत्यादि ; किंवा रससंशं
For Private and Personal Use Only