________________
Shri Mahavir Jain Aradhana Kendra
१म अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
सा जातिः सामान्यमनेकनिष्ठ' समानजन्मेति जातिसामान्यं समानजन्म जातिरिति बोध्यम् । उक्तञ्च जातिः सामान्य जन्मनोरिति । अत्र जन्मासमानजन्म । एकनिष्ठत्वाज्जन्मैवोच्यते च एवञ्चेज्जातेर्नित्यत्वमनुपपन्न' जन्मनस्तु क्षणिकत्वात् तस्मात् तादृशकारणसमवायात् समुदाय स्वरूपेणादाक्षण सम्बन्धजनकाद प्रकाश एव जन्म, न तु तादृशसमवाय इति नैवं वाच्यं, कारण हि पूर्ववर्त्तित्वं समवायश्च तादृशादाप्रकाशात् पूर्व नास्ति । अस्ति चेत् तर्हि यदैव निरवशेषाणां घटककारणानां समवायस्तदाऽयं जातोऽभ्युदितः प्रकाशितोऽभूदित्यादिकमुच्यते, तथावस्थानां जन्मनैव प्रकाश इति यावतां समवायिकारणानां द्रव्याणां संयोगस्तदा कद्रव्यत्वेन निखिलानां द्रव्यगुणकर्मणां समवायश्च युगपत् सम्पदाते नातस्तावत्समवायिसंयोगजः समवायः कारणमपि नायं कार्य्यात् पूर्वमसत्वात् । संयोगो ह्यनित्यस्तद्रूपा चेज्जातिस्तदा चानित्या स्यादपरापरयोगात नित्यत्वे संयोगस्य द्वन्द्वककर्म्मजोऽनित्य इति वचनानथक् स्यात् न हि तथाविधनित्यस्यानित्यत्ववचनमिदं तस्मादादा क्षणसम्बन्धोऽपि संयोगात्मकत्वान्न जन्मोच्यते, समवायानुकूलयावत्समवायिव्यापारस्तदुभयमुत्पत्तिः । स च व्यापारः क्षणिकस्तत्र यस्तत्तत्प्रसिद्धाकृतिसम्पादकतया समवायः स नित्य इष्ट एवेति द्रव्याणां यथा स्वघटकद्रव्यगुणकर्माणि तथैवैषां समवायश्चेति चतुर्द्धा सामान्यं चतुर्द्धा विशेषञ्च तत्तद् द्रव्याणां समतया सुतानां गवादीनां घटकानां द्रव्यगुणकपणां तेषां समवायस्य च समानप्रसवात्मकत्वेन ग्राह्यत्वान् । एतद् गवादितस्तद् गवादेर्भिन्नप्रसूतात्मकत्वेन ग्राह्यत्वाच्च । इत्थश्च घटे काय्यं नीलपीतादिगुणस्पन्दनादिकर्म मृदादिद्रव्याणां कारणानां सजातीयविजातीयतन्मात्र वैलक्षणावतांमने कतावताञ्च समुदायात्मके मृज्जलबालुकादीनां यो रूपरसादिगुणो यच्च कर्म तत्स परस्परं मृज्जलादेः संयोगकाले मृज्जलादेगु णैगुणस्य कम्मणा कर्मणः कपालाद्यवयवानां परस्परसंयोगात् समुदायस्य तेगुणकर्मभिः सह योगोऽपृथग्भावः समवायः तत्र नीलादीनि रूपाणि एकद्वित्रयादीनि यानि जायन्ते रसाश्च येऽपरे परे वा यावन्तो नित्या वा तेषां रूपादीनां परापरत्वसङ्ख्यादिभिः सहयोगव विशेषयन्नाह, भूभ्यादीनां गुणैमत इति । भूभ्यादीनां भूमिप्रकाराणां भूमिश्च भूयसामाधेयानामाधारः, तेनाधारत्वोदाहरणार्थमुक्ता ; यतो भूमेरर्थाः सर्व्वे गुब्र्व्वादिपराद्याश्च गुणास्तथा चावयविसामान्य
१०
For Private and Personal Use Only
- ७३