________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [विधिशोणितीयः बलदोषप्रमाणाद्वा विशुद्धा रुधिरस्य वा । रुधिरं स्त्रावयेजन्तोराशयं प्रसमीक्ष्य वा ॥ ७॥ अरुणाभं भवेद्वातात् फेनिलं विशदं तनु । पित्तात् पीतासितं रक्तं स्त्यायत्यौष्णाच्चिरेण च ॥ ईषत्पाण्डु कफाद दुष्टं पिच्छिलं तन्तुमद् धनम्। संस्कृष्टलिङ्ग संसर्गात् त्रिलिङ्ग सान्निपातिकम् ॥८॥ तपनीयेन्द्रगोपाभं पद्मालतकसन्निभम् । गुञ्जाफलसवर्णश्च विशुद्धं विद्धि शोणितम ॥६॥ गङ्गाधरः--शोणितस्य विसावणं यथा कत्तव्यं तदाह-बलदोपेत्यादि । बलस्यातुरबलस्य शोणितरूपदोषस्य च प्रमाणात् परियाणमनुसृत्य जन्तो रुधिरं स्रावयेत् । किंवा रुधिरस्य दुष्टस्य विशुद्धया विशुद्धिं यावत् वीक्ष्य विस्रा. वयेत् । यावद्दुष्टरक्त निर्गमः स्यात् तावत् विस्रावयेत् । विशुद्धरक्तदर्शने तु सति रक्तं स्तम्भयेदिति भावः। आशयरक्तजव्याधिस्थानं समीक्ष्य वा रक्तं विस्रावयेत् तद्याध्याश्रयस्थानस्य रक्तवर्णतादो विनष्टे रक्तं स्तम्भयेदिति भावः॥७
गङ्गाधरः--विशुद्धया रुधिरस्य वेति यदुक्तं कथं रक्तं दुष्टखेन विशुद्धखेन वा शेयं स्यादिति : अतः शोणितदुष्टिविशुद्धिलक्षणानि क्रमेणाह-अरुणाभमित्यादि। स्तवायत्यौटण्याचिरेण चेति पित्तदुष्टरक्तमौटण्यादधिकोष्णवाचिरेण स्त्यायति घनीभवति ॥ ८ ।।
गङ्गाधरः---विशुद्धरक्तलिङ्गमाह - तपनीयेत्यादि । तपनीयं वह्निना द्रवत्सुवर्णः। इन्द्रगोपः स्वनाम्ना प्रसिद्धः कीटविशेषः । अत्र नानावणता रक्तस्य वातादिनानाप्रकृतिपुरुषीयवात् । शोणितस्य दुष्टिविशुद्धोः मुश्रुतवचनानि
चक्रपाणिः -- उक्तशोणितस्रावणप्रमाणमाह-बलेत्यादि। बलदोपप्रमाणादिति बलस्य तथा दोपस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य, दोषशब्दो ह्ययं रोगे वर्त्तते। विशुद्धया रुधिरस्य चेति यावता स्रावणेन शोणितं शुद्धं स्यात् । आशयं स्थानं दुष्टशोणिताशयमिति यावत्, यथा - स्वल्पे कुष्ठे स्तोकमेव विशुद्धयर्थमुपादेयम्, महति कुष्टे बहु स्रावणीयम्, यदुक्तम्-"प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्"। एषु च पक्षेषु यद् यत्रानत्ययं भवति तत् तत्र ग्राह्यम् ॥ ७ ॥
चक्रपाणिः-टुष्टरक्तलक्षणमाह -- अरुणाभमित्यादि। स्त्यायति घनं भवति। विशुद्ध
For Private and Personal Use Only