________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः
सूत्रस्थानम् ।
८३१ कण्डरुत्कोठपिड़का-कुष्ठचर्मदलादयः। विकाराः सर्व एवैते विज्ञं याः शोणिताश्रयाः॥ ५ ॥ शीतोष्णस्निग्धरुताद्य रुपक्रान्ताश्च ये गदाः। सम्यक साध्यान सिध्यन्ति रक्तजस्तान् विनिर्दिशेत् ॥ कुर्य्याच्छोणितरोगेषु रक्तपित्तहरी क्रियाम् । विरेकमनुवासश्च स्रावणं शोणितस्य च ॥ ६॥
कुष्ठचर्म दलादय इति कुष्ठोक्तो पुनश्चर्मदलादय इति विशेषेण रक्तदुष्टिख्याप. नार्थ क्षुद्रकुष्ठचम्मेदलादीनामस्मिन संग्रहे ह्यनुक्तत्वेन सप्तकुष्ठातिरिक्तानां तेषाम् अलाभापत्त्या लाभार्थश्च । शोणिताश्रया इति वचनेन शोणितस्य वातादिवत् - कर्तवाभावः ख्यापितः ॥ ५ ॥
गङ्गाधरः-अनुक्तभूरिशोणिताश्रयव्याध्युपसंहारार्थमाह--शीतेत्यादि। आदि. ग्रहणात् वक्ष्यमाणशोणितव्याधिप्रतीकारोपक्रमभिन्नलङ्घनहणादुरपक्रमाणां ग्रहणम्। सम्यगुपक्रान्ता इति सम्बन्धः। ननु शीतोष्णादुरपक्रमः किं न रक्तपशमः स्यादिति ? अत आह-कुर्यादित्यादि। अत्रायं भावः, शोणिताश्रयव्याधीनां वातादिजन्यत्वेऽप्याश्रयस्य शोणितस्य प्राधान्यात् तन्निहरणं विनादितो येषां साध्यानां रोगाणां केवलवातादिप्रशमनशीतोष्णादुरपक्रमैने सम्यक् सिद्धिर्भवति तान् रक्तजान् व्याधीनादिशेत्। रक्तस्य स्रावणं ततो विरेचनं ततोऽनुवासनं ततो रक्तपित्तहरीरक्तपित्तसंशमनी क्रियां कुर्यात् । न खघोगरक्तपित्तहरणवमनक्रियाम् । न खादितो रक्तपित्तसंशमनी क्रियां ततो विरेचनं ततोऽनुवासनं ततो रक्तविस्रावणमिति ॥६॥
करोति। अनुक्तभूरिशोणितरोगग्रहणार्थमाह - शीतोष्णेत्यादि। आद्यग्रहणात् तीक्ष्णमृद्वादी ग्रहणम् ; सम्यगिति पूर्वेण योजनीयम् ; तत्र शीतोष्णस्निग्धरुक्षादैचरिति शोणितवृद्धिमनपेक्ष्य वातादिजयार्थमात्रप्रयुक्त रिति मन्तव्यम्, येन शोणितव्याधेरपि शान्तिर्वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शीतोष्णस्निग्धादि क्रियाप्रविष्टैच, ततश्च शोणितरोगस्यापि शीतादिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति ; प्रवृद्धशोगिताश्रयास्तु वातादयः स्वाश्रयप्रभावाः स्वचिकित्सामात्रेण न प्रशाम्यन्ति। रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः॥५॥६॥
For Private and Personal Use Only