________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२८
चरक संहिता |
प्रदुष्टं बहुतीच्णोष्णर्मधे रन्येश्च तद्विधैः । तथातिलवणचारैरम्लैः कटुभिरेव च ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
विधिशोणितयः
इत्यादि । विशुद्धञ्च तद्रधिरं बलादिभिर्युनक्ति । हि यतः प्राणिनां प्राणः शुद्धमशुद्ध वा शोणितमनुवर्त्तते । शोणितव्यतिरेकेण प्राणो नानुवर्त्तते इत्यर्थः । वक्ष्यते च "दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः । शङ्खौ मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम् ॥” इति । सुश्रुतेऽपि सूत्रस्थाने शोणितवर्णनीयाध्याये प्रोक्तं"तत्र पाञ्चभौतिकस्य चतुर्व्विधस्य षड्रसस्य द्विविधवीय्र्यस्याष्टविधवीय्र्यस्य वानेकगुणस्योपयुक्तस्याहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः सरस इत्युच्यते । तस्य च हृदयं स्थानम् । सहृदयाचतुर्विंशतिधमनीरनुप्रविश्योर्ध्वगा दश दश चायोगामिनीश्च तत्र स्तिर्य्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्टहेतुकेन कर्म्मणा । तस्य शरीरमनुधावतोऽनुमानाद्गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः । तस्मिन् सशरीरावयवदोषधातुमलाशयानुसारिणि रसे जिज्ञासा - किमयं तैजसः सौम्य इति ? अत्रोच्यते स खलु द्रवानुसारी स्नेहनजीवन तर्पणधारणादिभिर्विशेषैः सौम्य इत्यवगम्यते । स खल्वाप्यो रसो यकृत्प्लीहानौ प्राप्य रागमुपैति । भवतवात्र - रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया रक्तं रजःसंश' प्रवर्त्तते । तद्वदिद्वादशादूद्ध याति पञ्चाशतः क्षयम् । आर्त्तवं शोणितन्त्वाग्नेयमग्नीषोमीयत्वाद् गर्भस्य पाञ्चभौतिकञ्चापरे जीवरक्तमाहूराचार्य्याः । विस्रता द्रवता रागः स्पन्दन' लघुता तथा । भूम्यादीनां गुणा ते दृश्यन्ते चात्र शोणिते ।। रसाद्रक्त' ततो मांसं मांसान्मेदः प्रजायते । मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः ॥” इत्यादि ॥ ३ ॥
गङ्गाधरः -- विशुद्धिहेतुमुक्त्वा शोणितस्य दुष्टिहेतुमाह - प्रदुष्टमित्यादि । प्रदुष्टता शोणितस्य वस्तुनः प्रकृतिविपर्ययः । अन्यैश्व तद्विधैरिति प्रदुष्टं बहुतीक्ष्णोष्णैः । अन्यैरिति पानकादिभिः । अन्नैरिति पाठो वा । अतिलवणक्षारैः तद्विशुद्धम्, किंवा तदिति शोणितम् । प्राणः शोणितं ह्यनुवर्त्तत इति शोणितान्वयव्यतिरेकमनुविधीयते, यदुक्त – “दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः । शङ्खौ ममंत्रयं कण्ठो रक्त शुक्रौजसी गुदम्" इति ॥ १-३ ॥
चक्रपाणिः -शुद्धि हेतुमभिधाय दुष्टिहेतुमाह - प्रदुष्टेत्यादि । प्रदुष्टं स्वप्रकृतिविपरीतम् ।