________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः
८२६
सूत्रस्थानम् । कुलत्थमाषनिष्पाव-तिलतैलनिषेवणात्। पिण्डालुमूलकादीनां हरितानाञ्च सर्वशः ॥ जलजानपवैलानां प्रसहानाञ्च सेवनात्। दध्यम्लमस्तुशुक्तानां सुरासौवीरकस्य च ॥ विरुद्धानामुपक्लिन्न-पूतीनां भक्षणेन च। भुक्ता दिवा प्रस्वपत्तां द्रवलिग्धगुरूणि च ॥ अत्यादानं तथा क्रोधं भजताञ्चातपानलौ । छर्दिवेगप्रतीघातात काले चानवसेचनात् ॥ श्रमाभिघातात् सन्तापादजीर्णाध्यशनात् तथा । शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति ॥ ४॥
इति केचिदर्भपजतया व्याचक्षते तन्न, अन्नप्रकरणात् । अन्नै रित्यस्य विशेषणं कटुभिरित्यन्तम्। निष्पावः श्वेतशिम्बा। पिण्डालुः पिण्डाकारालुकः । हरितानां मरिचादीनाम्। वैलानामिति विलेशयानाम् । विरुद्धानां संयोगविरुद्धानाम् । उपक्लिन्नपूतीनां क्लेदीभूतानां पूतिगन्धीनां द्रव्याणाम् । द्रवस्निग्धगुरूणि भजतामित्यनेनान्वयः। अत्यादानमित्यर्थादाहारद्रव्याणामतिभोजनम् । भजतां क्रोधमातपानलौ च भजतामित्यन्वयः। अयुक्त्या क्रोधादिसेवनादित्यर्थः । काले चेति शोणितस्य दुष्टस्य यदावसेचनं कर्त्तव्यं तदानीम् । अनव सेचनात् अमोक्षणात्। अजीर्णे सति अघि चाशनमजीर्णाध्यशनम् अजीर्णे भोजनम् । अध्यशनञ्च पूर्वाहमुक्तशेषे यत् भोजनम् । तदुक्तं"भुक्तस्योपरि यद भुङ्क्ते तदध्यशनमुच्यते।” सम्प्रदुष्यतीति शोणितस्य दुष्टिः स्वभावान्यथावं क्षयो वृद्धिश्चेति ॥४॥
अन्यैश्च तद्विधैरिति प्रदुटपानकादिभिः, किंवा “अन्नैः” इति पाठः । “तथाऽतिलवणक्षारैः' इत्यादि केचिद भेषजविषयं वर्णयन्ति । तद्विधैरिति वचनेनानपानस्यातिलवणादेगृहीतत्वात् । निष्पावः श्वेतशिम्बिः ; अत्यादानं तृप्तिमतिक्रम्य भोजनम्, काले चेति शोणितरियुक्त शरत्काले। अजीर्णेऽध्यशनमजीर्णाध्यशनम्, किंवा अजीर्णस्यापकस्थाशनम्, अध्यशनन्तु पूर्वानशेषे यदभुज्यते, यदाह---"भुक्तस्योपरि यद् भुक्तं तदव्यशनमुच्यते" ॥ ४ ॥
For Private and Personal Use Only