________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुव्त्रिंशोऽध्यायः ।
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रे यः ॥ १ ॥
विधिना शोणितं जातं शुद्धं भवति देहिनाम् । देशकालौकसाम्यानां विधिर्यः सम्प्रकाशितः ॥ २ ॥ तद्विशुद्धञ्च रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनां प्राणः शोणितं ह्यनुवर्त्तते ॥ ३॥
गङ्गाधरः- अथ भेषजयोजनाकर्त्तव्यतायां पुंसां देहे शोणितमपि धातुषु प्रधानत्वादपेक्षणीयं भवतीत्यतोऽनन्तरं विधिशोणितीयाध्यायमाह – अथात इत्यादि । अध्यायादौ विधिना शोणितमिति पदस्यार्थतो विधिशोणितेतिशब्दमधिकृत्य कृतोऽध्याय इति विधिशोणितीयस्तं तथा । सर्व्वं पूर्व्ववत् ॥ १ ॥
गङ्गाधरः - विधिनेत्यादि । विधिना तेन सम्यगाहाराचाराभ्यां देहिनां देहे जातं शोणितं शुद्धमदुष्टमेव भवति । केन विधिना तदाह--देशेत्यादि देहिनां विशेषणम् । विधिर्यः संप्रकाशित इति तस्याशीतीये देशकालौकसात्म्यानां देहिनामाहाराचारयोर्यो विधिः सम्यक् प्रकाशितस्तेनैव विधिना कृताहारजरसाज्जातमिति योज्यम् ॥ २ ॥
गङ्गाधरः- ननु तस्य च विशुद्धरुधिरस्य किं फलमिति ? अत आह— तद्
चक्रपाणिः - सम्प्रति वातादिवद बहुविकारकर्त्तृत्वेन शोणितस्य शोणितविकाराणां पूर्वोक्तान् एवोपक्रमान् लङ्घनश्रृंहणादीन् विशेपेण दर्शयितुं विधिशोणितीयोऽभिधीयते ; इयमप्यर्थपरा संज्ञा । विधिनेति सम्यगाहाराचारविधिना । शुद्धं भवतीत्यत्र भवति विद्यत इत्यर्थः, उत्पादस्य जातशब्देनैवोक्तत्वात् । केन विधिनेत्याह--देशेत्यादि । सात्म्य शब्दस्य देशादिभिः प्रत्येकमन्वयः । ओकसात्म्यमभ्याससात्म्यम् । संप्रकाशित इति तस्य। शितीये; संप्रकाशित इत्यत्र तेनेति शेषः, अतो यः संप्रकाशितो विधिस्तेन विधिनेति सम्बन्धः । अन्ये व्याख्यानयान्तशोणितं जातं तावद् भवति, तच्च कारणान्तरदुष्टं सद् विधिना यथोक्त ेन पुनः शुद्धं भवतीति योजनीयम् । विशुद्धं शोणितं किं करोतीत्याह - तद्विशुद्धमित्यादि । तेन विधिना विशुद्धं
* प्राणिनमिति चक्रः ।
For Private and Personal Use Only