________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२६
चरक संहिता |
स्वादुरम्लो जलकृतः सस्नेहो रुन एव वा । सद्यः सन्तर्पणो मन्थः स्थैर्य्यवर्णबलप्रदः ॥ २० ॥ तत्र श्लोकः । सन्तर्पणोत्था ये रोगा रोगा ये चापतर्पणात् । सन्तर्पणीये तेऽध्याये सौषधाः परिकोर्त्तिताः ॥ २१ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ प्रत्येकं समानानां पिष्टानां कल्कैर्युक्तः सद्विगुणसक्त रिति सन्तर्पणानां सक्त, योनित्वाल्लभ्यते ॥ १९ ॥
गङ्गाधरः- सद्यस्तर्पणमाह - स्वादुरित्यादि । स्वादुः शर्करामध्वादियोगात् । अम्ल इति दाडिमामलकादियोगात् । जलकृत इति जलेनालोडितः । सस्नेहो घृतादियोगात् स्नेहसक्त मयो मन्थः । रुक्ष एव वेति घृतादियोगं विनापि रुक्षसक्तमयो वा मन्थः द्रवशैत्यविकाशित्वैः सद्यः सन्तर्पयतीति भावः । एवञ्च लङ्घनादीनां पण्णामुपक्रमाणामरोगत्वे सेव्यमानानां व्याधिहेतुलमुक्त' भवति । यतस्तु वहणस्नेहनयोः सन्तर्पणवमुक्त, तज्जातानाञ्च व्याधीनामपतर्पणं वमनविरेचन व्यायामोपवासरुक्षान्नस्वेदनादिकमुक्तम् । अत एव हणस्नेहने सन्तर्पणे भवतश्रवारि लङ्घनादीन्यपतर्पणानि भवन्तीति द्वैविध्यं पष्णामिति बोध्यम् ॥ २० ॥
गङ्गाधरः- अध्यायार्थमुपसंहर्त्ती माह तत्रेत्यादि । स्पष्टम् ।। २१ ।। गङ्गाधरः- अग्निवेशेत्यादि ॥
इति वैद्य श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरो मूत्रस्थानीयत्रयोविंशाध्यायसन्तर्पणीयजल्पाख्या त्रयोविंशी शाखा ।। २३ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
| सन्तर्पणीयः
कारकमन्थादयः, तेन इइ संज्ञामात्रेण ये तर्पणा अपतर्पणकारका व्योषादयस्ते न ग्राह्या, किन्तु शर्करापिप्पलीत्यादिग्रन्थवाच्याः शर्करादिमन्थोक्तमानेनापरेऽपीह मन्था ग्राह्याः ॥ १३ – ६९ ॥
;
चक्रपाणिः – स्वादुरग्लेत्यादिना सद्यस्तर्पणमाह- अम्ल इति अम्लदाड़िमादियोगात् अत्र भक्त कृतस्यापि मन्थस्य द्रवत्वशैत्यदेहानुसारित्वैः सद्यस्तर्पकत्वं भवत्येव, अत एव सध इत्युक्तम् ; स्नेहादिवृंहणद्रव्ययोगात् तु कालान्तरतकत्वमपि भवति || २०|२१ ॥
इति चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थानव्याख्यायां सन्तर्पणीयो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥