________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः ।
सूत्रस्थानम्।
८२३ प्लीहा पाण्डामयः शोफो मूत्रकृच्छ्रमरोचकः । हृद्रोगो राजयक्ष्मा च कासश्वासगलग्रहाः॥ क्रिमयो ग्रहणीदोषाः चत्र स्थौल्यमतीव च । नराणां दीप्यते चाग्निः स्मृतिबुद्धिश्च वर्द्धते ॥६॥ व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः। सन्तर्पणकृतैदोषैः स्थौल्यं मुत्तवा विमुच्यते ॥ १० ॥ उक्तं सन्तर्पणोत्थानामपतर्पणमौषधम । वक्ष्यन्ने सौषधाश्चार्द्धमपतर्पणजा गदाः ॥ ११ ॥ देहाग्निबलवजिः -शुक्रमांसपरिक्षयः। ज्वरः कासानुबन्धरच पार्श्वशूलमरोचकः ॥ श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा । विण्मूत्रसंग्रहः शुलं जबोरुत्रिकसंश्रयम ॥ पास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः।
ऊर्द्धवातादयः सबै जायन्ते तेऽपतर्पणात् ॥ १२ ॥ वचनन्तु अपतपेणरूपरुक्षसन्तर्पणार्थ परिभाषारूपं बोध्यम। तेन सर्वत्र सन्तर्पणमेतयैव दिशा कार्यमिति । श्वैत्रा वित्रिवम् ।।९।।
गङ्गाधरः--संग्रहेण सन्तर्पणप्रतीकारमाह-व्यायामेत्यादि । उक्तमित्यादि। सन्तपेणोत्थानामिति स्निग्धसन्तर्पणोत्थानाम्, अपतर्पणमिति स्निग्धसन्तपेणविपरीतं तपेणमपतपणमित्यर्थः, न तु तर्पणमात्रविपरीतमपतपणम् । अषणादिव्योषादियोगयोः सन्तर्पणाख्यया स्वयमुक्तवात्। अपतर्पणजा इति रुक्षसन्तर्पणजाः स्निग्धसन्तपेणविपरीततर्पणजा इत्यर्थः । स्निग्धतर्पणविपरीततर्पणन्तु द्विविधम् ; उपवासाद्यद्रव्यभूतं रुक्षादिद्रव्यभूतश्च ॥१०।११ ॥
गङ्गाधरः-अपतपेणजाः के गदा इति ? अत आह-देहानीत्यादि । ऊर्द्ध वातादय इति श्वासादयः, किंवा “अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च । शेया। श्वैत्रं श्वित्रित्वम्, श्वैत्यमिति पाठे श्वेतावभासता। ऊद्ध वातादय इति पूर्वाध्यायोक्ताः-“गर्द्ध वातास्तमो हृदि' इत्यादि, अर्द्धवातः श्वासादिर्यत्रोद्ध वायुर्याति, किंवा
For Private and Personal Use Only