________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२२ चरक-संहिता।
(सन्तर्पणीयः जषणं त्रिफला क्षौद्र क्रिमिनमजमोदकः । मन्थोऽयं सक्तवः ॐ सपिहितो लोहोदकाप्लुतः ॥८॥ व्योषं विडङ्ग शिग्र णि त्रिफलां कटुरोहिणीम । वृहत्यौ द्वे हरिद्र द्वं पाठामतिविषां स्थिराम ॥ हिङ्ग केवूकमूलानि यमानीधान्यचित्रकान् । सौवर्चलमजाजीञ्च हवुषाञ्चेति चूर्णयेत् ॥ चूर्णतेलघृतक्षौद्र-भागाः स्युर्मानतः समाः। संक्तनां षोड़शगुणो भागः सन्तर्पणं पिबेत ॥ प्रयोगादस्य शाम्यन्ति रोगाः सन्तर्पणोत्थिताः । प्रमेहा मूढ़वाताश्च कुष्ठान्यांसि कामलाः॥ गङ्गाधरः-वाषणमित्यादि। लोहोदकाप्लुत इति षडङ्गपरिभाषया अगुरुकाथमद्धेशृतं कृखा तदुदकोपहितः सन् मन्थो भवति। अत्रानन्तरव्योषमित्यादियोगनिर्दिष्टप्रमाणसाहचर्यात् अषणादीनामपि मानं बोध्यम्। तेन अषणत्रिफलाक्रिमिनाजमोदानां मिलितानां यावन्मानं तावन्मानं क्षौद्रस्य तावच्च सर्पिषः। चूर्णादीनां सव्वेषां पोड़शगुणमानं सक्तनामित्येवं सर्वमर्द्धशृतागुरुकाथेनालोड्य पानं सन्तपणं रुक्षमिति बोध्यम् ॥ ८ ॥
गङ्गाधरः-व्योषमित्यादि। यमानीति वनयमानी। अनाजी जीरकम्। हवुषामिति स्वनामख्याताम्। चूर्णयदिति व्योषादिहवुषान्तानां चूर्णानां मिलितानां यावन्मानं तावन्मानं तिलतैलम् । तावच्च क्षौद्रम् । तावच घृतम् । सक्तनान्तु चूर्णापेक्षया षोड़शगुणो भाग इत्येवं सव्वं द्रवानुक्त्या शृतजलेन आलोड्य सन्तर्पणं पिवेत्। सन्तृप्यन्तं प्रयुङ्क्ते यत्तत् सन्तपेणं सन्तृप्यतेऽनेन वा तत्तथा। एतच्च रुक्षसन्तर्पणमप्यपतर्पणं बोध्यम् । स्निग्धसन्तर्पणप्रत्यनीकत्वेनोक्तखात्। सन्तर्पणोत्थिता इति स्निग्धसन्तपणोत्थिताः। चूर्णतैलेति उदककरणञ्च षडङ्गविधानेन । इह प्रयोगे वक्ष्यमाणव्योपाद्य क्तप्रमाणेन साहचर्याच्चूर्णादिमानं
चक्रपाणिः -- सन्तर्पणमिति जलालोड़ितशत रूपतया, तेन सन्तर्पणसंज्ञकस्याप्यपतर्पणता
ज्ञयम् ॥५-८॥
* सर्पिरित्यत्र तैलमिति चक्रोक्तः पाठः ।
For Private and Personal Use Only