________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्याय
सूत्रस्थानम् ।
८२१ मुस्तमारग्वधः पाठा त्रिफला देवदारु च। श्वदंष्ट्रा खदिरो निम्बो हरिद्रा त्वक् च वत्सकात् ॥ रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः। सन्तर्पणकृतैः सव्वैयाधिभिः सम्प्रमुच्यते ॥ एभिश्चोद्वत्तनोदघर्ष-स्नानयोगोपयोजितः । त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः ॥ ५ ॥ कुष्ठं गोमेठको हिङ्ग, क्रौञ्चास्थि त्रषां वचा। वृषकले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः ॥ तकं ग दधिमण्डेन बदराम्लरसेन वा। मूत्रकृच्छ प्रमेहञ्च पीतमेतद्व पोहति ॥ ६॥ तक्रामय प्रयोगश्च त्रिफलायास्तथैव च । अरिष्टानां प्रयोगश्च यान्ति मेहादयः नयम ॥७॥
गङ्गाधरः-मुस्तमित्यादि। मुस्तेत्यादिविरेकाथ योगः । खक् च वत्सकात् कुटजखगित्यर्थः । यथादोपमिति दोपमानापेक्षया मानेन। एभिरिति मुस्तादिभिः । उद्वत्तेनमभ्यक्तगात्रे म्रक्षणम् । उदयपस्त्वनभ्यक्तगात्रे म्रक्षणम् । स्नानार्थकाथोऽपीत्येवंरूपयोगेनोपयोजितः। खग्होपाः कण्डादयः । स्नेहोषसंहितैः स्नेहानां सर्पिस्तैलादीनां साधनरूपेणैवोपयुक्तरेभिश्च मुम्तादिभिः कल्कः कटुतैलादिकं पत्तवाभ्यङ्गयोगेनेत्यर्थः ॥ ५॥
गङ्गाधरः-कुष्ठमित्यादि। गोमेदको मणिविशेषः। क्रोञ्चेति को च इति ख्यातः पक्षी। खराता खुरासिनी अंजमोदा ॥६॥
गङ्गाधरः--तक्राभयेत्यादि स्पष्टम् ॥७॥
चक्रपाणिः- यथादोपमिति दोपप्रमाणापेक्षया गृहीतमात्रम। उद्वर्त्तनमम्यङ्गपूर्वकम्, उद्रर्परत्वनभ्यङ्गापू कः। स्नेहोपसंहितैरिति स्नेहसाधनेनोपयुक्तः। गोमेदको मणिविशेषः, क्रौञ्चः पक्षी, को च इति ख्यातः पक्षी। खराश्वाऽजमोदा। लोहोदकाप्लु तः इत्यगुरूदकाप्लुतः,
* हरिद्रे इति वा पाठः ।
For Private and Personal Use Only