________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः]
सूत्रस्थानम्। समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः ।
स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः ॥ २२ ॥ समवायेनापूव्वसमुदायत्वेन जन्मप्रभावस्तज्ज साहजिक कम्म । स्वहेतुनश्च कम्म स्वारम्भहेतुमतिनियतकम्र्मजन्यत्वेन निर्वाच्यम् । यथा चेतने गमनतिय्य ग्गपनाधोगमनादि। अचेतने पार्थिवद्रव्यादौ विरेचनस्तम्भनवमनादि । इत्येवमचिन्त्यं चिन्त्यं द्विविधं कर्म । गुणोऽपि द्विधा अचिन्त्यश्चिन्त्यश्चति । तद्यथा-पुरुष चेतनाधातौ निर्गुणे सत्त्वयोगादुपाधिमति राशिपुरुष इच्छाप्रयत्नादिः। चिन्त्यः पुरुषे नीलपीतादिः। अचेतने मधुरादिरिति व्याचक्षते व्याख्यानमिदं कम्मेलक्षणस्य सम्भवति न तु निदिष्टस्य कर्मणः। नेदं हि कर्मणो लक्षणमपि तु खादीन्यात्मेत्यादिवन्निद्देशः । तेनैकं प्रयत्नादिकर्मापरन्तु चेष्टितं कमति नवद्रव्यवत् द्वे कम्म णी इति शेयम् । कम्मलक्षणन्तु संयोगे चेत्यादिना वक्षाते ॥२१॥
गङ्गाधरः-अथ द्रव्यगुणकम्प्रेणां मिथः संयुक्तसत्त्वात्मशरीरतिकात्मकलोकेऽचेतने च मेलन परिशिष्टञ्च समवायं निर्देष्टुं लक्षणेनैव निर्दिशति ; समवाय इत्यादि । समवाय इति यदयुतानां पृथक पृथक स्थितानां सिद्धानां कारणानां किञ्चिदाधार्य किश्चिदाधाररूपं भविष्यदित्येवम्भूतानां कार्यखमापन्नानां तेषामिह कार्ये खल्विदमित्येवं प्रत्ययहेतुर्यः सम्बन्धः स कार्यकारणयोः सम्बन्धः समवाय इत्यर्थ इति वैशेषिका भाषन्ते । तस्य तेन स्वरूपज्ञानस्वरूपलक्षणतया निर्दिष्ट आचाय्यण द्रव्यादिलक्षणवत्तु समवायलक्षणं पृथङ् न वक्ष्यते। अत्र न पृथगभावोऽपृथग्भावः, पृथग्भावो नाम संयोगवैलक्षण्यानेकखानां त्रयाणां विपर्ययश्चेत्, तर्हि संयोगः सहयोगो द्रवयाणां द्वन्द्वसककर्मजोऽनित्यस्तद्विपर्यो यस्तु खलु वियोगो भागशो ग्रहश्चेति द्विधाविभागः पृथगेव गुणतया पठितः, एव वैलक्षण्यश्च भेदः परस्परसमवायवतामस्तीति वैलक्ष्यण्यविपर्ययोऽभेदस्तन्मात्रे वर्त्तते । तथानेकताविपर्याय एकवं तच्चैकमात्रपरमाण्वादिष्वस्ति न ह्ये कलमेकख
चक्रपाणिः-समवायमाह, समवाय इत्यादि । समवायस्य चायं निर्देश एव लक्षणं, तेनोत्तरोत्तर- . द्रव्यादिलक्षणे पुनरस्य लक्षणं न कर्त्तव्यं ; समवाय इति लक्ष्यनिर्देशः, अपृथग्भाव इति लक्षणम्,
For Private and Personal Use Only