________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिवनहगीपः
८१८
चरक-संहिता।
तत्र श्लोकः। इत्यस्मिन् लकनाध्याये व्याख्याताः षड़ पक्रमाः ।
यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्त्तिता ॥ २७ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृत श्लोकस्थाने लान
वृहणीयो नाम द्वाविंशोऽध्यायः ॥ २२ ॥ भवति ? भवति च किं व्यस्तसमस्तेन ? ततश्च षट्वमित्याशङ्कयाह -- भवति चात्रेत्यादि । दोषाणां वातपित्तककानां बहुसंसर्गात् द्विशस्त्रिशश्च हीनाधिकमध्यक्षयद्धिभिः संसर्गात्, सुतरां बहुत्वम् त्रित्वन्तु नाति. वर्तन्ते, तथा लङ्घनादीनामेकैकश उपयोगेन न व्याध्युपशमो भवतीति लङ्घनादयोऽप्युपक्रमाः सङ्कीय्यन्ते मिलिता भवन्त उपयोक्तव्या भवन्ति । यथा कुत्रचित् सन्निपातज्वरादो लङ्घनस्वेदने कुत्रचित् टहणस्वेदनादि कचित् स्नेहनवमनादि इत्येवमादयः । एवञ्च लङ्घनादयः सङ्कीर्णा अपि षट्त्वं नातिवत्तेन्ते। यथा वातादयस्त्रयो दोपाः द्विपष्टिया भवन्तोऽपि त्रित्वं नातिवन्ते । परम्परं संसृष्टा अपि माघृतवत् स्वस्वकार्यारम्भकत्वान्न तु वस्वकार्यातिरिक्तकार्यारम्भकत्वादतिवर्तन्ते इति भावः ॥२६॥
अध्यायार्थमुपसंहरति-तत्र श्लोक इत्यादि एकश्लोकेन । स्पष्टम् ।। २७॥ अध्यायं समापयति अनीत्यादि । पूर्ववद व्याख्यातव्यम् । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ सूत्रस्थानीय
द्वाविंशलङ्घनटहणीयाध्यायजल्पाख्या द्वाविंशी शाखा ॥२२॥ दोषाणां यस्मात् संसर्गा बहवस्तस्मात् तत्साधनार्थमुपक्रमा अपि सङ्कीर्यन्ते मिश्रतां यान्ति; यथा-कचिल्लङ्घनस्वेदने, कचिद् वृहणस्वेदने, एवमादि । षट्त्वन्तु नातिवर्त्तन्त इति संसृा अपि लङ्कनादिस्वरूपं न जहति, लङ्घनादयः परस्परयुक्ता मधुसर्पिःसंयोगवन्न प्रकृतिगुणानपेक्षिकार्यान्तरमारभन्त इति भावः। अत्रैव दृशान्तमाह--त्रित्वमित्यादि। अयञ्च दृष्टान्तः संसर्गिसंख्याऽपरित्यागमात्रकः ।। २६॥२७॥ इति चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां लङ्घनवृहणीयो नाम द्वाविंशोऽध्यायः ॥ २२ ॥
For Private and Personal Use Only