________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः
सूत्रस्थानम् । श्यावता स्तब्धगात्रत्वमुदवेगो हनुसंग्रहः । हृदच्चोंनिग्रहश्च स्यादतिस्तम्भितलक्षणम् ॥ २४ ॥ लक्षणञ्चाकृतानां स्यात् षण्णामेषां समासतः । तदौषधानां धातूनामशमो वृद्धिरेव च ॥ इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः । साध्यानां साधने सिद्धा मात्राकालानुरोधिनः ॥ २५ ॥
भवति चात्र। दोषाणां बहुसंसर्गात् सङ्कीर्यन्तेऽप्युपक्रमाः।
षट्त्वन्तु नातिवर्तन्ते त्रित्वं वातादयो यथा ॥ २६ ॥ स्तम्भितः। बले लब्धे इति स्तम्भनीया पित्तक्षाराग्निदग्धायामयजयेन यदा पुरुषो बलवान् भवति तदा इत्यर्थः ॥ २३ ॥
गङ्गाधरः----एतत् सम्यकस्तम्भितलक्षणविपरीतलक्षणन्तु अकृतस्तम्भनलक्षणं बोध्यमिति नोक्त्वातिस्तम्भितलक्षणमाह ---श्यावतेत्यादि। उद्वेगः सम्यगात्मत्वाभावः ॥२४॥
गङ्गाधरः-विस्तरेण सम्यककृतलङ्गनादीनां लक्षणेनार्थापत्त्या मिथ्याकृतलङ्घनादीनां लक्षणलाभऽपि शिष्यानुकम्पया समासेन घण्णामेकलक्षणम् अकृतानामाह-लक्षणमित्यादि। तदोपधानामिति तल्लङ्घनादिकं यद यदौषधं येषां ते तदोपधा व्याधयः। धातूनामिति दोषाणाम्, दोषाश्च धातुसंशका भवन्ति। तेन लङ्घनादिसाध्यतत्तप्राध्यारम्भकदोषाणामशमो न शान्तिश्च पुन धिरेव भवति । अल्पमात्रकृतत्वे दोपक्षोभात् । उपसंहरति-इतीत्यादि। इति षट् विदिखा सव्वेरोगाणां सम्यगुपक्रमाः किंवा यथायोग्यत्वेऽपि संशोधनस्य सव्वव्याधिविषयत्वान्न सवेरोगाणामितिवचन विरुध्यते। साध्यानामित्यसाध्य रोगव्यवच्छेदाय । सिद्धा इत्युपक्रमविशेषणम् । मात्राकालावननुरुध्य साध्यानामपि व्याधीनां साधनाय न स्युरिति ज्ञापनार्थमाह-मात्रेत्यादि ॥२५॥
गङ्गाधरः-ननु पप्णां लङ्घनादीनामेकैकेनोपक्रमेण किमेकैकव्याध्युपशमो भिधेयैः, उद्वेग ऊर्बुवातवेगः, किंवा भैषज्यानभिलाषः । तदोषधानामिति लङ्घनादिसाध्यानाम्, वृद्धिरेव चेति स्तोकमात्रकृतलङ्घनादिक्रियया, दोषक्षोभमात्रस्य कृतत्वात्, धातूनामिति दोषाणाम्, "दोषा अपि धातुशब्दं लभन्ते" इति वचनात् ॥ २२-२५॥ चक्रपाणिः-सम्प्रत्युकलङ्कनाद्यपक्रमाणां विकारापेक्षया संसर्गमाह --- दोपाणामित्यादि ।
For Private and Personal Use Only