________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयोविंशोऽध्यायः ।
अथातः सन्तपेणीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्रं यः ॥ १ ॥ सन्तर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः । नवान्नैर्नमश्च मांसश्चानूपवारिजैः ॥ गोरसै गौडिकैश्चान्यैः • पैष्टिकैश्चातिमात्रशः । चेष्टापी दिवास्वप्न शय्यासनसुखे रतः ॥ रोगास्तस्योपजायन्ते सन्तर्पणनिमित्तजाः । प्रमेहपिकाकोट-कण्डपाण्डामयज्वराः ॥ कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः । तन्त्रा क्लैव्यमतिस्थौल्यमालस्यं गुरुगात्रता ॥
गङ्गाधरः- अयोक्तानां षण्णां लङ्घनादीनामुपक्रमाणां सन्तर्पणापतपेणत्वभेदेन पुनद्व विध्यादनन्तरं सन्तर्पणीयोऽध्यायोऽभिधीयते--अथात इत्यादि । सन्तर्पणमधिकृत्य कृत इति सन्तर्पणीयः ॥ १ ॥
1
5
गङ्गाधरः सन्तर्पयतीति तृपसन्दीपनप्रीणनयोरिति विभाषितचौरादिको धातुः सन्तृप्यतीत्यर्थः न तु सन्तर्पणमाचरतीत्यर्थः । तदर्थं प्रयोगासाधुत्वात् । सन्तर्पणं हि द्विविधम् स्निग्धं रुक्षश्च । “सक्तूनां षोड़शगुणो भागः सन्तर्पण' पिवेत्” इति वक्ष्यमाणवचनदर्शनात् । तत्र स्निग्धसन्तर्पणोत्यव्याधीनाह- स्निग्धैरित्यादि । स्निग्धादिभिर्नवान्नादिभिद्रव्यैश्चेष्टादिभिः अद्रव्यैश्व यः सन्तृप्यति चेष्टाद्वं प्यादिश्व यः तस्य सन्तर्पणं शीघ्रमप्रतिकुर्व्वतः सन्तर्पणनिमित्तजाः प्रकरणात् स्निग्धसन्तर्पणनिमित्तजा रोगा उपजायन्ते । ते रोगाः के इति ? अत आह— प्रमेहेत्यादि । आमप्रदोषा चक्रपाणिः - व्याख्यातषडुपक्रमाणामेत्र सन्तर्पणापतर्पण भेटेन द्विविधानां द्विविधविषये प्रवृत्तिं दर्शयितुं सन्तर्पणीयोऽभिधीयते । सन्तर्पयति सन्तर्पणमाचरति । स्निग्धैरित्यादिवचनम्, अस्निग्धादिभिरपि शक्तप्रभृतिभिस्तृप्तिमात्रकारकत्वेन सन्तर्पणनिषेधार्थम् । भवति हि तृप्तिकारके सन्तर्पणशब्दप्रयोगः, यथा त्रैव सन्तर्पणप्रयोगे “शक्तूनां षोडशगुणो भागः सन्तर्पणं * अन्नैरिति चक्रः ।
For Private and Personal Use Only