________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१४ चरक-संहिता।
[ लङ्घनवृहणीयः स्नानमुत्सादनं स्वप्नो मधुराः स्नेहवस्तयः । शर्करानीरसपी पि सर्वेषां विद्धि वंहरणम् ॥१६॥ कटुतिक्तकषायाणां सेक्नं स्त्रीवसंयमः । खलिपिण्याकतक्राणां मध्वादीनाञ्च रुक्षणम् ॥ अभिष्यन्दा महादोषा मर्मस्था व्याधयश्च ये। ऊरुस्तम्भप्रभृतो रुक्षणीया निदर्शिताः ॥ १७ ॥ स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः। स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम ॥१८॥ द्रवं तन्वसरं यावच्छीतीकरणमौषधम ।
खादतिक्तकषायश्च स्तम्भनं सर्वमेव तत् ॥ मांसानां रसा लघवः स्वभावतो लघवः । श्येनादीनां मांसानां रसाः स्वभावतो गुरवश्व। संस्कारेण लघूकृताहणाः शीघ्र हणा इत्यर्थः। सव्व पुरुषसाारणहणान्याह--- स्नानमित्यादि। सापां पुंसां सर्वमिदं हणं विद्धीत्यर्थः ॥१६॥
गङ्गाधरः--अथ पूचं लक्षणत उक्तं रुक्षणद्रव्यं स्वरूपत आह---कदित्यादि । स्त्रीष्वसंयमः प्रायेण स्त्रीसेवनम् । खलिप्रभृतीनां मध्वादीनाञ्च सेवनमित्यन्वयः। खलिनिःस्नेहसपखलिः। पिण्याको निःस्नेहतिलखलिः, किंवा पिण्याकशाकविशेषः। आदिना भृष्टचणकादयः। रुक्षणीयाश्च कीदृशाः ? इति प्रश्नस्योत्तरमाह-अभिष्यन्दा इत्यादि। अभिष्यन्दाः स यमाणाक्षिनासादयः, महादोषा व्याधयः। प्रभृतिशब्देन प्रमोहादयः ॥१७॥
गङ्गाधरः-अथ के स्नेहाः ? इ.यादिप्रश्नचतुष्टयस्योत्तरे वक्तव्ये लक्षणतः स्नेहस्वेदावक्तौ प्रागिहाध्याये स्वरूपतः सविस्तर तथा स्नेह्याः स्वेद्याश्च के ? इति प्रश्नस्योत्तरमाह-स्नेहा इत्यादि। स्वेदाख्ये चेति स्वेदाध्याये ॥१८ ॥
गङ्गाधरः-अथ स्तम्भनं कीदृशम् इति प्रश्नोत्तरे वक्तव्ये पूर्व लक्षणतः लघव इति संस्कारेण लघवः ; किंवा क्रन्यादानां ये लघवः श्येनादयः, तन्मांसरसा इत्यर्थः ॥ १५॥१६॥
चक्रपाणिः-मध्वादीनाञ्च सेवनमिति सम्बन्धः ; खलिः सर्पपखलिः : पिण्याकं तिलखलिः,
For Private and Personal Use Only