________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः
सूत्रस्थानम् ।
८१३ त्वगढोषिणां प्रमीढानां * स्निग्धाभिष्यन्दिव हिणाम्। शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥ १४ ॥ अदिग्धविद्धमक्लिष्टं वयःस्थं सात्म्यचारिणाम्। मृगमत्स्यविहङ्गानां मांसं वहणमिष्यते ॥ १५॥ क्षीणाः न्ताः कृशा वद्धा दुबला नित्यमध्वगाः। स्त्रीमद्यनित्या ग्रीष्मे च वहणीया नराः स्मृताः ॥ शोषाशोग्रहणीदोषैाधिभिः कर्षिताश्च ये। तेषां क्रयादमांसानां वहणा लघवो रसाः॥
नन्वेवमस्त्वेषामन्येषां पुंसां लगदोपप्रमेहवातजरोगादीनां किं न लङ्घनसाध्यखमिति ? अत आह-खगदोपिणामित्यादि। स्निग्धाभिष्यन्दि इति अतिस्निग्धत्वे गुदादितोऽभिष्यन्दयानस्नेहानाम् । हिणां टहणयुक्तानाम् । शिशिरे इति पौपमाघयोस्तत्र पुसामतिबलत्वान संशोधनेतरलचनं, कार्तिकाग्रहायणयोस्तु संशोधनरूपं लङ्घनं, तयोः संशोधनकालत्वेनोक्तत्वात्। न तु शिशिरगुणयुक्त हेमन्त शिशिररूपा द्वये चातुर्मासिकलङ्घनमिति दशविधमेवोक्तम् ॥१४॥
गङ्गाधरः--लङ्घनानन्तय्यात् हणं द्रव्यं पूव्व लक्षणत उक्तमधुना स्वरूपत उपदिशति-अदिग्धेत्यादि । दिग्धेन विषाक्तशरादिना विद्धमिति दिग्धविद्धम् । न तददिग्धविद्धमिति। अक्लिष्ट रोगाद्यविकृतम्। वयःस्थं यूनां सम्बन्धे। किंवा वयःस्थामिति पाठः षष्ठीबहुवचनान्तत्वेन बोध्यः। सात्माचारिणामिति सात्मादेशे ये चरन्ति ते सात्माचारिणस्तेषाम् ॥१५॥
गङ्गाधरः--हणीयाश्च कीदृशाः ? इति प्रश्नोत्तरमाह-क्षीणा इत्यादि । ग्रीष्मे चेति क्षीणादिभिन्ना अपि ढहणीया इति बोध्यम्। शीघ्रहणीयानाहशोषेत्यादि। क्रव्यादमांसानां मांसभक्षकमृगादीनां व्याघ्रकुम्भीरगृध्रादीनां
वृहिणो वृहणयुक्तानां, लङ्घनं शस्तमिति दशविधमपि । शिशिर इति शिशिरगुणयुक्त हेमन्ते शिशिरे च । अत्र च ल झनं बलवत्त्वात् प्राणिनां कार्यम् ॥ १२-१४ ॥ . चक्रपाणिः-अदिग्धविद्धमिति विषाक्तशस्त्राविद्धम्। सात्म्यदेशे चरन्तीति सात्म्यचारिणः । * प्रमूढ़ानामिति चक्रः।
For Private and Personal Use Only