________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१२ चरक-संहिता।
[ लङ्घनवृहणीयः येषां मध्यबला रोगाः कफपित्तसमुत्थिताः । छर्द तीसारहृद्रोग-विसूच्यलसकज्वराः ॥ विवन्धगौरवोद्गार-हृल्लालारोचकादयः।। पाचनस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत् ॥ एत एव यथोदिष्टा येषानल्पवला गदाः ।। पिपासानिग्रहस्तेषामुपवासैश्च तान् जयेत् ॥ १३॥ रोगान् जयेन्मध्यवलान् व्यायामातपमारुतैः । बलिनां किं पुनर्येषां रोगाणामवरं बलम् ॥ गङ्गाधरः--अधिकबलदोपविषयकलवनमुक्त्वा क्रमिकलात् मध्यबलदोषविषयकलवनयोग्यानाह- येषामित्यादि । मध्यवला इत्यादिविशेषणं छातीसाराबरोचकादय इत्यन्तस्य । प्रायेणादाविति वचनेन मध्यवलपित्तश्लेष्मजच्छर्दिज्वरादिष्वादो उपवास विधानं न विरुद्ध मिति ख्यापितम्। न च लङ्घनमत्र पाचनशब्देनोच्यते पृथगुक्तखात् । क्रमिकखादल्पवलदोषविषयकलङ्घनयोग्यानाह-एत एवेत्यादि। एत एव श्लेष्मपित्तसमुत्थिताश्छदंतीसारादयो यथोद्दिष्टा गदा अल्पवलाः। अल्पबलखेन येषां जायन्ते तेषां पिपासानिग्रहैरुपवासश्च तान् श्लेष्म पित्तसमुत्थितान् छतीसारादीनल्पवलान् गदान जयेत् संशमयेत्। जयेदित्युक्त्या प्रभूतश्लेप्मजादिच्छातीसारज्वरादीन् पुनरादावेवोपवासेनोपक्रम्य पश्चात् संशोधनपाचनादिभिजयेदिति ख्यापितम् । अल्पबलानामेषां पिपासानिग्रहोपवासाभ्यामेव जयः स्यात्, न संशोधनाद्यपेक्षा भवतीति भावः ॥१३॥
गङ्गाधरः-रोगानित्यादि। रोगानिति बलिनां पुंसां छद्दतीसारादीन् मध्यवलानादावुपवासेन तथा पाचनरुपक्रम्य पश्चात् व्यायामातपमारुतैर्जयेत् । पुनर्येषां रोगाणां बलमवरं बलिनां पुंसां तेषां रोगाणां व्यायामातपमारुतै. जये किम् ? अर्थादतिसुखेन तान जयेदिति भावः ।। मन्ते च्छर्यादीनां निरामाणां संशमनीयत्वात्। रोगानिति लङ्घनीयरोगान् , बलिनामिति पदं बलवतामेव व्यायामादिसेवाविधानार्थ', मध्यबलानामप्येतेनाल्पबला एवःगदा व्यायामादिविषया इति भावः।
For Private and Personal Use Only