________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः सूत्रस्थानम् ।
८११ चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेति लवनम् ॥११॥ प्रभूतश्लेष्मपित्तात्र-मलाः संसृष्टमारुताः। वृहच्छरीरा बलिनो लवनीया विशुद्धिभिः ॥ १२॥
गङ्गाधरः-लङ्घनादिद्रव्यमुक्त्वा स्वरूपतो लङ्घनादिकं वक्तमादौ लङ्घनस्य प्रभेदानाह--चतुरित्यादि । चतुष्प्रकारा संशुद्धिरिति वमनविरेचनास्थापनशिरोविरेचनानीति। अनुवासनस्य य़हणवात्तद्वयवच्छेदाय चतुष्पकारेति । पिपासेति-पिपासानिग्रहस्तृष्णावेगधारणमित्यर्थः। मारुतेति-वायुर्वाह्यः प्राकृत एव लङ्घनं स्यात् देहे लाघवकरखात् । न तु विकृतः प्रागादिदिगष्ट्यादिसोमसम्बन्धेन लाघवकरखाभावात् ग्रीष्मादौ चातपसम्बन्धेन वैकृतस्य देहलाघवं प्रत्यकुशलखाच । आतपश्च लङ्घनं सर्वदैव देहलाघवकरत्वात् । पाचनानीति----आहारान् पचन्तं जाठरमग्निसन्धुक्षयन्ति तद्धलं वद्धयन्ति च । यानि पाचयन्ति तानि पाचनानि वाय्वग्निगुणबहुलानि सैन्धवमरिचादीनि द्रव्याणि। लौकिकोऽयश्च वनिरपि पाचनः। उपवासस्तु जाठराग्निसन्धुक्षणेन बलदानेन च आहारपानोऽपि द्रव्यमयखाभावात् पृथगुपदिष्टः। आतपान्तास्तु सप्त न पाचना जाठराग्निसन्धक्षणखाभावेन, देह. लाघवकरखा तु पृथगुक्ताः। एवञ्च व्यायामोऽप्यद्रव्यभूतखात् पृथगुक्तः न तु पाचनखेन संगृहीतः। अत एव लङ्घनस्य द्रव्याद्रव्यसाधाणखख्यापनार्थं लवनलक्षणे यत्किश्चिदित्युक्तम् न तु द्रव्यमित्युक्तम् ॥११॥ ___ गङ्गाधरः--शिष्यपृष्टलङ्घनीयोपदेशार्थ लङ्घनप्रभेदान् दशोक्त्वा तद्दशविधलङ्घनेषु प्रतिलचनयोगमाह - प्रभूतेत्यादि। विशुद्धिभिरिति चतुर्भिः संशोधनः यथावाधिकारोक्तवम्यविरेच्यास्थाप्यशिरोविरेच्यत्वेनोक्ता ये ते प्रभूतश्लेष्मादयः संशोधनीया इत्यर्थः ।। १२ ॥
तथापि स्वरूपेण लङ्घनमेव । पचन्तमग्नि प्रतिपक्षक्षपणेन बलदानेन च यत् पाचयति तत् पाचनं, तञ्च वारवग्निगुगभूयिष्ठम्। चतुष्प्रकारा संशुद्धिरित्यनुवासनं वर्जयित्वा, तस्य श्रृंहणस्वात् ॥ ८.--११॥
चक्रपाणिः-- उक्तस्य दशप्रकारलझनस्य भिन्न विषयमाह-प्रभूतेत्यादि। आदाविति पचन
For Private and Personal Use Only