________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१०
चरक-संहिता। [ लङ्घनघृहणीयः द्रवं स्निग्धं सरं स्थूलं * पिच्छिलं गुरु शीतलम्। प्रायो मन्दं मृदु च यद् द्रव्यं तत् स्नेहनं मतम्॥८॥ उष्णं तीक्ष्णं सरं स्निग्धं रुक्षं सूक्ष्म द्रवं स्थिरम् । द्रव्यं गुरु च यत् प्रायस्तद वै स्वेदनमुच्यते ॥ ६ ॥ शीतं मन्दं मृदु श्लक्ष्णं सूक्ष्म रुनं द्रव स्थिरम् ।
यद द्रव्यं लघु चोदिष्टं प्रायस्तत् स्तम्भनं स्मृतम्॥ १० ॥ हि सरगुणयुक्तम्, रुक्षणन्तु स्थिरगुणयुक्तमिति भेदः। भेदश्च लघुरुक्षगुणाधिक्येन लङ्घनरुक्षणयोरिति बोध्यम् । वोध्यञ्च लङ्घननापि रौक्ष्यमल्पं देहे लाघवमधिकं रुक्षणेन रौक्ष्यमधिकं लाघवमल्पमिति। तथा द्रव्याद्रव्यभूतखं लङ्घनस्य । रुक्षणस्य तु द्रव्यभूतत्वमिति ॥ ७ ॥
गङ्गाधरः-द्रवमित्यादि। द्रवादिनवगुणयुक्त द्रव्यं स्नेहनम् । अत्रापि मन्दगुणस्याधिक्येन स्नेहनं कचित् किश्चित्तीक्ष्णत्वेऽपि स्नेहनलस्य न व्यवच्छेदः॥८॥
गङ्गाधरः-उष्णमित्यादि । उष्णादिभिः सप्तभिगुणः रवेदनम् । उणादिसप्तगुणसहचरितः स्थिरो वा सरो वा स्थिरसरान्यतरसहितः स्निग्धरुक्षान्यतरसाहितैश्च स्निग्यो वा रुक्षो वा गुणो यस्य तद्व्यं वेदनमिति भावः ॥ ९॥
गङ्गाधरः---शीतमित्यादि। शीतादिनवगुणयुक्त स्तम्भनम् । प्रायःपर्दन प्रभावात् कचिदन्यस्यापि लनटहणवादिकं बोध्यं लक्षणतो लङ्घनादिकम् ॥ १० ॥ चिरकारि। स्थलं संहतावयत्रं लडडुपिटकादि। विरुक्षणद्रव्यकथने यद्गुणमेव लखनद्रव्यमुक्तं तद्गुणमेव विरुक्षणं यद्यप्युक्त, तथापि रुक्षगुणस्यात्र प्राधान्यम् , रङ्कने तु लघुगुणप्राधान्यं ज्ञेयम्, तथा लङ्घनमद्रव्येणोपवासेनापि नियते विरुक्षणन्तु द्रव्यकार्यतयैव प्राधान्यात् उक्तम्, तेन लवनविरुक्षणयोनकता ; यत् तु वक्ष्यति ... 'कृतातिकृतलि यलचिते तद्विरुक्षिते' इति, तत् प्रायोवादात्। विरुक्षणस्य हि मुख्यः स्नेहाभावः, लवनस्य तु गौरवाभाव इति स्फुट एव भेदः प्रतिभाति ॥ ४-७॥
चक्रपाणिः-स्वेदगुणकथने स्निग्धं रुक्षमिति स्निग्धं वा रुक्षं वत्यर्थः । एवं सरस्थिरावपि विकल्पेन ज्ञेयो। पिपासेति पिपासानिग्रहः ; मारुतो यद्यपि सोमसम्बन्धात् तथा लङ्घनं न भवति,
* श्लपणमित्यपि क्वाचित्कः पाठः।
For Private and Personal Use Only