________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः
सूत्रस्थानम् ।
८०६ लघृष्णतीदणविशदं रुत्वं सूक्ष्मं सरं खरम्। कठिनञ्चैव यद् द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥ ५॥ गुरु शीतं मृदु स्निग्ध बहलं स्थूलपिच्छिलम् । प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं वृहणमुच्यते ॥६॥ रुनं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्।
प्रायशः कठिनञ्चैव यद द्रव्यं तद्धि रुक्षणम ॥७॥ स्तम्भगौरवशीताभावधम्मरनुमीयते दह स्वेदः। स्तम्भयताति स्थिरीकरोति । गतिमन्तमिति प्रव्यक्तगतियुक्तम् । चलं किञ्चिद्गतिमन्तम्। द्रवमकठिनं मूर्तिमन्तम् । तेन वातस्य प्रव्यक्तगतिमतस्तु चलद्रवसहचरितस्य स्तम्भकद्रव्यं स्तम्भनं भवति। न तु कैवल्ये। किंवा स्तम्भनलक्षणमेवैतत् । तन्न । तस्मात केवलवातसम्भवे वातस्य वृद्धो क्षतिः। एषां हि लखनादीनां सम्यकप्रयोगादिभिः शुभाशुभे क्रियेते। तदर्थ भिषगवहितो भवति । तस्मात् यत्किञ्चित वस्तु प्रव्यक्तगतिमन वा किञ्चिद्गतिमन्तं द्रवं वा भावं स्तम्भयति रुणद्धि तद्वस्तु स्तम्भनमित्यर्थ । लङ्गनादिपदसिद्धिस्तु कत्तरि कृत्प्रत्ययेन बोध्या न तु भावे लुटा। लाघवकरमिति स्तम्भयतीत्यादि कुणिचोः प्रयोगदर्शनात् ॥ ४॥
गङ्गाधरः-लङ्घनादिद्रव्यं क्रमेण विकृणोति--लध्वित्यादि। लघ्वादिनवगुणयुक्तद्रव्यं देहे लाघवकरखाल्लङ्घनं स्मृतम् ॥५॥
गङ्गाधरः-गुरु शीतमित्यादि । एतल्लध्वादिनवगुणविपरीतगुरुशीतादिनवगुणवद द्रव्यं हणम् । लघोविपरीतो हि एणो गुरुः । उष्णस्य शीतः । तीक्ष्णस्य मन्दः। विशदस्य पिच्छिलः । रुक्षस्य स्निग्धः। सूक्ष्मस्य स्थूलः सान्द्रश्च । सरस्य स्थिरः । खरस्य श्लक्ष्णः । कठिनस्य मृदुः। प्राय इत्यनेन मन्दगुणस्य आधिक्यं यस्मिन् द्रव्ये तद द्रव्यं चिरकारिखान हणम् । कचित्तीक्ष्णगुणवद्द्रव्यस्यापि पिप्पल्यादेव हणलं ख्यापितमित्यर्थः ॥६॥
गङ्गाधरः-रुक्षमित्यादि। रुक्षमित्याद्यष्टगुणयुक्तं द्रव्यं रुक्षणम् । लङ्घनं विलयनम्। स्वेदकारकं धर्मकारकम्। स्तम्भयतीति विरुणद्धि ; चलमिति किञ्चिद्गतिमत्, गतिमन्तमिति प्रव्यक्तगतिमन्तम, एतच्चातिसारशोणितस्रुतिविषदाहवेदनादिषु बोद्धव्यम् न तु केवलवाते गतिमन्तं प्रति, स्तम्भकस्य वर्द्वकत्वात्। गुर्वित्यादी बहलं धनम्, मन्दमिति
For Private and Personal Use Only