________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०८
चरक-संहिता। [लङ्घनवृहणीयः लचनप्रभृतीनाश्च षण्णामेषां समासतः । कृताकृतातिवृत्तानां * लक्षणं वक्तमर्हसि ॥ ३ ॥ तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥ वृहत्वं यच्छरीरस्य जनयेत् तच्च वृहणम् । रौक्ष्यं खरत्वं वैशय यत् कुर्यात् तद्धि रुक्षणम् ॥ स्नेहनं स्नेहविष्यन्द-माईवक्लेढकृन्मतम् । स्तम्भगौरवशातनं स्वेदनं स्वेदकारकम् ।
स्तम्भनं स्तम्भयति यत् गतिमन्तं चलं द्रवम् ॥ ४ ॥ तत्प्रश्नेनैवान्येषां प्रश्नसिद्धेने प्रश्नान्तरं तेपां दशितम् । कृताकृतातिवृत्तानामिति कृतं सम्यक् कृतम् । अकृतमसम्यमिथ्याभ्यां कृतम् । अतिवृत्तमति. योगयुक्तम् ॥३॥
गङ्गाधरः-क्रमिकप्रश्नोत्तरमाह यत्किश्चिदित्यादि। देहे लाघवकरमित्युक्तप्रव सिद्धौ यत् पुनर्यत्किञ्चित्पदं तदयोगातियोगमिथ्यायोगयुक्तखेऽपि लङ्घनवख्यापनार्थमिति बोध्यम् । यत्किश्चित्पदं वृहत्त्वादिभिः सर्वैः सम्बध्यते। तेन यत् शरीरस्य यत्किश्चिदहत्त्वं जनये तच हणमित्यादिरूपेण केचिद्याचक्षते, तन्न ; यत्किञ्चिद्वस्तु देहे लाघवकरं भवति तल्लङ्घनं स्मृतमित्यर्थः। तेनैवायोगादेर्लाभात्। रौक्ष्यमित्यादि प्राधान्येन रोक्ष्यम् । खरखवैशदा खनुगते इति कश्चिद्याचष्टे। रोक्ष्यमितिमात्रोक्त्यैव रुक्षणलक्षणसिद्धौ खरखवैशदेव पुनयदुक्ते तद्रौक्ष्यानुमानाथं लिङ्गवख्यापनार्थम् । देहे हि रौक्ष्यं खरखवैशद्याभ्यामनुमीयते, न तु प्रत्यक्षमुपलभ्यते। न च रौक्ष्य स्निग्धवाभावो देहे प्रत्यक्षमेव हि दृश्यते : खरवं वैशयश्च रौक्ष्यकार्यमिति । स्नेहविष्यन्दः शरीरस्य स्नेहविलयनं शरीरात स्नेहक्षरणमिव । स्नेहविष्यन्दादिभिरनुमीयते देहे स्निग्धखमिति। स्वेदकारकमिति धर्मकारकमित्यर्थः ।
चक्रपाणिः-परिचोदयन्निति ज्ञानार्थं प्रेरयत् । कृतेत्यादी कृतं सम्यककृतम् ॥ २॥३॥ चक्रपाणिः-रौक्ष्यमित्यादौ रौक्ष्यमेव प्रधानं बोद्धव्यम् ; खरत्ववैशदेव तु तदनुगते। विष्यन्दो * कृताकृतातिरिक्तानामितिपाठश्चकटतः ।
For Private and Personal Use Only