________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वाविंशोऽध्यायः ।
अथातो लङ्घनवृंहणीयमध्यायं व्याख्यास्यामः, इतिह स्माह भगवानात्र यः ॥ १ ॥ तपःस्वाध्यायनिरतानात्र यः शिष्यसत्तमान् । षड़ग्निवेशप्रमुखानुक्तवान् परिचोदयन् ॥ लङ्घनं वृहणं काले रुक्षणं स्नेहनं तथा । स्वेदनं स्तम्भनञ्चैव जानीयात् स भवेद भिषक् ॥ २ ॥ तमुक्तवन्तमात्र यमग्निवेश उवाच ह । भगवन् लङ्घनं किं तल्लङ्घनीयाश्च कीदृशाः ॥
वृहणं वृहणीयाश्च रुक्षणीयाश्च रुक्षणम् । के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः ॥ स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद् गुरो ।
अथ पुरुषे भेषजयोजनायां शरीरदेध्यस्थौल्यायपेक्षावत्क्रियाविशेषलङ्घनवृंहणादिषु योग्यताsयोग्यताज्ञानमप्यपेक्षणीयं भवतीत्यतोऽष्टौनिन्दितीयानन्तरं लङ्घनवृंहणीयोऽभिधीयते अथात इत्यादि । लङ्घनं वृंहणमितिपदद्वयार्थमधिकृत्य कृत इति लङ्घनट हणीयः ॥ १ ॥
गङ्गाधरः- तप इत्यादि । तपःस्वाध्यायनिरतानग्निवेशप्रमुखान् षट् शिष्यसत्तमान् अग्निवेशभेलजतूकर्णपराशरहारीतक्षारपाणीन् परिचोदयन्नध्यापन विधौ पूर्वं गुरु यात् शिष्यं प्रति पठेति प्ररणवाक्यम्, इति प्रेरणवाक्यं ब्रवन्तुक्तवान । किमुक्तवान तदाह--यदुक्तं लङ्घनमित्यादि । काले इत्यस्य लङ्घनादिभिः प्रत्येकमन्वयः ।। २ ।।
गङ्गधरः - तमित्यादि । अग्निवेशस्य षट्सु शिष्येषु विशिष्टबुद्धिमत्त्वादग्रे
चक्रपाणिः-- योजनापेक्षिणीयशरीरमभिधाय लङ्घनादिविषयत्वात् योजनाया लड़नादीनि एव विषयतः स्वरूपतश्च वक्तु ं लङ्घनवृहणीयोऽभिधीयते ॥ १ ॥
For Private and Personal Use Only