________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०६
चरक-संहिता। [ अष्टोनिान्दतीयः या या यथा यत्प्रभवा निद्रा तत्सर्वत्रिजः। अष्टौनिन्दितसंख्याते व्याजहार पुनव्वंसुः ॥ ३३॥
इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौ
निन्दितीयो नामैकविंशोऽध्यायः ॥ २१ ॥
तमोभवेत्यादिना यद्भवा पुरुषाय या या निद्रा। रात्रिस्वभावप्रभवेत्यादिना यथाप्रभवा या निद्रा तत्सर्व सामान्यत उक्तम् ॥३३ ।।
अध्यायं समापयति---अग्नीत्यादि। सर्च पूववव्याख्येयम् ।
इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ मूत्रस्थानीयाष्टौनिन्दितीयाख्यैकविंशाध्यायजल्पाख्या
एकविंशी शाखा ॥२१॥
चक्रपाणिः-संग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुषाय। यथाप्रभावा चेति भूतधात्रीत्यादिवर्णितप्रभावा ॥ ३३ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायाम् अशौनिन्दितीयो नाम एकविंशोऽध्यायः ॥२१॥
For Private and Personal Use Only