SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०४ चरक-संहिता। अष्टौनिन्दितीयः रात्रिस्वभावप्रभवा मता या तां भूतरात्रीं * प्रवदन्ति निद्राम। तमोभवामाहुरघस्य मूलं शेषाः पुनाधिषु निर्दिशन्ति॥३२॥ निद्रा कापि न भवतीति, तस्य तमसो निद्रासाधारणकारणस्य श्लेष्मादिहेतुव्यतिरेकेण यः स्वतो भवत्युद्रेकस्तस्य यन्निद्राजनकत्वं सा निद्रा तमोभवा । एषा पुनरघस्य मूलतयाऽत्रैव वक्ष्यते। सुश्रुते तु-“तामसी नामोक्ता सा प्रलयकाले भवति। तदन्या चेयं श्लेष्मसमुद्भवा केवलवृद्धेन श्लेष्मणा द्वितीया निद्रा। मनःशरीरश्रमसम्भवा तु मनसो वा शरीरस्य दा श्रमेण यदा न च मनो न वेन्द्रियाणि स्वस्वविषयेषु प्रवत्तन्ते तहि ततो निद्राति, न तु श्रमेण। वायुवृद्धग्रा निद्रानाशः स्यात् तात्कालिकः। कालान्तरे तु ततो वातान्निद्रानाश एवोच्यते। आगन्तुकी रिष्टरूपा निद्रा, न तत्र तयःश्लेष्मादिको हेतुः। ज्वरारिष्टादिलक्षणं हि-“शेते निपतितोऽपि वा” इत्यादि व्याध्यनुवत्तिंनी सन्निपातिकज्वरादौ। रात्रिस्वभावात् प्रभवति या सा रात्रिस्वभावप्रभवा। सा तु न तमसा न वा श्लेष्मणा न वा मनःशरीरश्रमसम्भवा न वा आगन्तुकी नापि व्याध्यनुवर्तिनी। दिवा तु या निद्रा सा तमःश्लेष्मादिसम्भवा। हेतुव्यतिरेकेण न भवतीति भावः। एतासु च निद्रासु प्रशस्तां निद्रामाह-रात्रिस्वभावेत्यादि। भूतानि राति ददातीति भूतरात्री, तां तथा। आसु चातिनिन्दितनिद्रामाह-तमोभवामित्यादि । अघस्य मूलमिति तमोगुणबाहुल्येन सदैव निद्राक्लान्तस्य सत्ताद्यनुष्ठानाभावेन पाप जायते इति भावः। शेषा ति व्याधिषु स्वभावप्रवृत्तादिव्याधिषु । रात्रिस्वभावप्रभवाया हि निद्रायाः स्वभावव्याधित्वात् क्षुत्पिपासा शरीरश्रमसम्भवा तु निद्रा मनःशरीरयोः श्रमेण क्रियोपरमे सति नेन्द्रियाणि न च मनो विषयेषु प्रवर्त्तन्ते, ततश्च निद्रा स्यात्, श्रमश्चायमनतिवृद्धो भूरिवाताप्रकोपकोऽभिप्रेतः, तेन श्रमस्य वातजनकत्वेन निद्रानाशः किमिति न भवतीति न वाच्यम्, दृच्चैतत् यत्-श्रान्तानामनिद्रा न भवतीति। आगन्तुकी रिष्टभूता ; व्याध्यनुवर्तिनी सन्निपातज्वरादिकार्या; रात्रिस्वभावात् प्रभवतीति रात्रिस्वभावप्रभवा। दिवाप्रभवन्ती तु निद्रा तमःप्रभृतिभ्यस्त्रिभ्य एव स्यात् । आसु निद्रासु प्रशस्तां निद्राचाह-रात्रीत्यादि। भूतानि प्राणिनो दधाति पुष्णा. तीति भूतधात्री, धात्रीव धात्री। अघस्य पापस्य मूलमिति कारणम्। तमोगृहीतो हि * भूतधात्रीमिति वा पाठः। For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy