________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः
सूत्रस्थानम् ।
८०३ एत एव च विज्ञ या निद्रानाशस्य हेतवः।
काय कालो विकारश्च प्रकृतिर्वायुरेव च ॥ ३१॥ तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसम्भवा च । आगन्तुकी व्याध्यनुवर्तिनी च रात्रिस्वभावप्रभवा च निद्रा ॥
युक्तनिद्रावारकस्य समयोगयुक्त निद्रानाशकत्वं दर्शयति–एत एव चेत्यादि। निद्रानाशस्य स्वस्थपुरुषस्य समयोगेन सेव्याया अपि निद्राया नाशस्येत्यर्थः। आतुरस्य तु सुश्रुतोक्तनिद्रानाशोऽनिलादिना दशितः। आचार्येणापि दश्यते-कार्यमित्यादि। स्वस्थातुरोभयपरतया काय्यकालप्रकृतयो बोध्याः। कार्य कर्म । क्रियासक्तो हि न निद्राति । कालो वाक्यम् । तमोभूयिष्ठस्य श्लेष्मजये। विकारो ज्वरादिः। दृद्धो हि वाक्यावस्थास्वभावान निद्राति। प्रकृतिः स्वभाव', वायुर्वायुप्रकृतिः, न तु समावस्थो वायुनिद्रानाशहेतुः ; विषमस्य तु वायोविकारपदेन लाभात् । वायुप्रकृतिको हि जागरूकः स्फुटितकरचरणादिक उक्त इति। एतेन प्रकृतिः स्वभावः वायुविशेषेण निद्रापहारक इति ज्ञापनार्थ पुनरुक्त इति यद्व्याख्यातं तददृषितं भवति। जागरूकखस्वभावस्तु पुंसां न निसर्गतः स्यात्, प्रकृतिभूतवायुना हि भवति। सुश्रुते दिवानिद्रावद्रात्रिजागरणमपि रोगविशेष हितमुक्तम् । तद्यथा--- "कफमेदोविषार्तानां रात्रौ जागरणं हितम्। दिवास्वमश्च तृट्शूल-हिक्काजीर्णातिसारिणाम् ॥” इति ॥ ३१॥
गङ्गाधरः-निद्राविधिमुक्त्वा निद्रायाः कारणभेदेन भेदानाह-तमोभवेत्यादि। तमोभवेति आत्ममनःस्थानहृदयपद्मस्य तमोगुणावरणमन्तरेण
तमोजयस्तमोगुणजयः, स च योगाभ्यासादिना भवति । एत एव चेति स्वस्थे क्रियमाणा हात बोद्धव्यम् । निद्रातिप्रसङ्गे सति क्रियमाणा अतिप्रसङ्गनिषेधका भवान्त। अपरानपि निद्रानाशहेतूनाह-कार्यमित्यादि। कार्यमिति कार्यासक्तो न निद्रां याति। काल इति वार्द्धक्यं, वृद्धा हि स्वभावत एव जागरूका भवन्ति । विकारो व्याधिः शूलादिः । प्रकृतिः स्वभावः, स्वभावादेव केचिदनिद्रा भवान्त। विकारग्रहणेनैव वाते लब्धे पुनर्वातग्रहणं विशेषेण वायोनिद्वापहारकत्वप्रतिपादनार्थम् ॥३१॥
चक्रपाणि:-निद्राविशेषानाह--- तमोभवेत्यादि। तमोभवा इति तमोगुणोद्रेकभवा , मनः
For Private and Personal Use Only