________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०२
चरक-संहिता। [ अष्टोनिन्दितोयः स्वास्तीर्ण शयनं वेश्म सुखं कालस्तथोचितः। आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः ॥ ३० ॥ कायस्य शिरसश्चैव विरेकश्लईनं भयम्। चिन्ता क्रोधस्तथा धूमो व्यायामो * रक्तमोक्षणम् ॥ उपवासोऽसुखा शय्या सत्त्वौदाय्यं तमोजयः । निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम् ॥
वाहनानि शरीरप्रदेशविशेषे सुष्ठुमद्दनानि । स्वास्तीर्ण शयनं सुखम् । वेश्म च सुखमिति बोध्यम् । कालस्तथोचित इति--यस्य पुरुषस्य यः कालो निद्रायामभ्यस्तः स कालस्तस्योचित इत्यर्थः । निमित्तत इति निद्राया अनिमित्ततो विनष्टाया व्यवच्छेदः । सुश्रुते हुयक्तं-"निद्रानाशोऽनिलात् पित्तान्मनस्तापात् क्षयादपि। सम्भवत्यभिघाताच प्रत्यनीकैः प्रशाम्यति ॥ निद्रानाशेऽभ्यङ्गयोगो मृद्धि तैलनिषेवणम् । गात्रस्योद्वर्त्तनञ्चैव हितं संवाहनानि च ॥ शालिगोधूमपिष्टान्न-भक्ष्यरैक्षवसंस्कृतैः। भोजनं मधुरं स्निग्धं क्षीरमांसरसादिभिः ।। रसैविलेशयानाश्च विष्किराणां तथैव च। द्राक्षासितक्षुद्रव्याणामुपयोगो भवेनिशि ॥ शयनासनयानानि मनोज्ञानि मृदृनि च। निद्रानाशे तु कुर्वीत तथान्यान्यपि बुद्धिमान् ॥” इति ॥३०॥
गङ्गाधरः-अथ निद्रानाशस्य हेतूपदेशादतियोगयुक्तनिद्राप्रतिषेधमाहकायस्येत्यादि । असुखा शय्या सुखस्यानिका शय्या। सत्त्वौदार्य सत्त्वगुणभूयिष्ठता । तमोजयस्तमोगुणस्य योगाभ्यासादिना जयः । निद्राप्रसङ्गमहित मिति अहितनिद्राप्रसङ्गोऽतियोगयुक्तनिद्रा। सुश्रुतेऽप्यतिनिद्राप्रतिषेध उक्तस्तद्यथा-"वमेन्निद्रातियोगे तु कुर्यात् संशोधनानि च। लङ्घनं रक्तमोक्षश्च मनोव्याकुलनानि च ॥” इति ॥ अतियोगकाले निद्रा पुरुषेणाभ्यस्ता, स कालस्तस्याचितः । निमित्ततः प्रनष्टेतिवचनमरि राजनितनिद्राभावप्रतिषेधार्थम्, अरिष्टं ह्यनिमित्तमुच्यते ॥ ३० ॥
चक्रपाणि:-त्र निद्राप्रतिषेधहेतुमाह-कायस्येत्यादि। सत्त्वौदार्यम् सत्त्वभूरित्वम् ;
* तथा इत्यत्र कथा इति एवं व्यायाम इत्यत्र व्यवाय इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only