________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः
सूत्रस्थानम् । देहवृत्तौ यथाहारस्तथा स्वप्नः सुखो मतः। स्वप्नाहारसमुत्थे तु स्थौल्यकार्ये विशेषतः ॥ २६ ॥ अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः। शाल्यन्नं सदधि क्षीरं स्नेहो मद्य मनःसुखम् ॥ मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च। चक्षुषोस्तर्पणं लेपः शिरसो क्दनस्य च ॥
आह-रात्रावित्यादि । रुक्ष रुक्षयतीति रुक्षवगुणजनकम् । एवं स्निग्धं स्निग्धगुणो जन्यतया विद्यतेऽस्य तत् तथा। एतेन भुक्तवतामभुक्तवतां दिवास्वप्न. रात्रिजागरणयोमिथो विपरीतलं ज्ञापितम् । स्वप्नविशेषखादासीनप्रचलायितस्य उपविष्टस्य किञ्चिन्निद्रारूपस्य गुणमाह-अरुक्षेत्यादि। अनभिष्यन्दि अस्निग्धम् ॥२८॥
गङ्गाधरः-विहारेषु स्वप्नस्य प्राधान्यमाह-देहेत्यादि । देहस्य वृत्तौ सुख इति मिथ्यायोगायोगातियोगभिन्नयोगयुक्तः। स्वप्नाहारेति अतियोगादियुक्ताभ्यां स्वप्नाहाराभ्यां समुत्थं स्थौल्यम् अयोगादियुक्ताभ्यां स्वप्नाहाराभ्यां समुत्थं काश्य विशेषतो भवति। स्थौल्यकार्य योविशेषहेतुखेनोक्तिरिहाष्टौ निन्दिताः पुरुषा उक्तास्तेष्वतिनिन्दितखात् तदधिकाराच । एतेन समयोगयुक्तनाहारेणेव स्वप्नेनापि नातिस्थूलकृशः स्यादिति सुश्र तेन तुल्यवाक्यता बोध्या ॥२९॥
गङ्गाधरः-स्वप्नस्य निमित्ततो विनष्टस्य जनकान्याह--अभ्यङ्गेत्यदि। मनसोऽनुगुणा इति गन्याः शब्दा इत्येताभ्यामन्वीयते । संवाहनानि सुखजनक
उपचर्यते । किञ्च जागरणं रात्री दिने वा रुक्षमेव, परं दिवा जागरणं न विरुक्षणं शरीरे करोति रात्रिस्वप्नप्रस्निग्धत्वात् , रात्री जागरणन्तु शैक्ष्यं करोति, तेन तत् रुक्षमुच्यते ; एवं दिवास्वप्नेऽपि वाच्यम्। स्वप्नप्रसङ्गेन स्वप्नभेदगुणमाह-अरुक्षमित्यादि। अनभिष्यन्द्यस्निग्धमित्यर्थः । आसीनप्रचलायितमुपविष्टस्य किञ्चिन्निद्रासेवनम्, यदाहुर्जनाः प्रधानं विहारेषु। स्वप्नप्राधान्ये हेतुमाह- देहवृत्तावित्यादि।-॥२८२९॥
चक्रपाणिः-सुखहेतुस्वप्नजनकं हेतुमाह --अभ्यङ्गेत्यादि। कालस्तथोचित इति यस्मिन्
For Private and Personal Use Only