________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
म अध्यायः]
सूत्रस्थानम् । वैधव्रीहिपश्वादिप्रोक्षणम् । दिक् कम्मविशेषे प्राच्यादि-दिक। वैदिके पूर्वमुखं कर्म करोतीत्यादि। नक्षत्रं मघादि श्राद्धादिकर्म विशेषे विहितम् । कालो राहुदर्शनादिः। नियमो दशविधः । एतेऽदृष्टाय परलोकजनकफलाय भवन्तीन्यथैः। एषु कम्मसु सिद्धार्थ दोपादोषावाह। चातुराश्रम्यमुपधाश्च । चातुराश्रम्यं वेदविहितं कादष्टाय भवति। तत्रोपधा अनुपधाश्चास्ति फलानिनिष्पत्तो। तत्रोपधानुपधावाह। भावदोष उपधा अदोषोऽनुपधा । भाव इच्छा रागः प्रमादः श्रद्धा। इच्छादयो भावास्तेभ्यो दोष उपधासंशः स्यात् । इच्छादिभावतोऽदोषस्वनुपधासंशः स्यात्। कर्मप्रवचनप्रकरणात् पारलौकिककर्माण्युक्त्वा भूतक्रमखात् तेजःप्रभृतीनां शेषाणां क्रियामाह । अग्नरूद्ध ज्वलनं कयोस्तियंकपतनमणूनां मनसश्चादा कादृष्टकारितम् । अनादेरूर्द्ध,ज्वलनादिकम्मे न दृष्टकारणकारितं किन्तु सर्गकाले तल्लक्षणतयैव जातवादग्नेरुद्धज्वलन कादृष्टकारणस्वभावकारितं वायोस्तिय्य क् पतन सर्वतो गमन कादृष्टकारणस्वभावकारितम् । अणूनां तन्मात्रात्मकानां वाय्वादीनां याद्यात्मकानाञ्चादा कर्म मनसश्चादा कम्म चादृष्टकारणस्वभावकारितमिति बोध्यम् । एतेनाकाशात्मकालदिशां न कम्मोस्तीति शापितमिति वैशेषिकः कणाद उवाच। अथ वक्ष्यन्ते आत्रेयभद्रकाप्यीये। इह खलु सर्च पाञ्चभौतिकं चेतनावदचेतनञ्चेत्यस्मिन्नथे इत्यादिना तूक्तानि द्रव्याणि पार्थिवादीनि । तेषां कार्याणि यथा। पार्थिवान्युपचयसङ्घातगौरवस्थेय्य - कराणि। आप्यान्युपक्ले दस्नेहबन्धविष्यन्दमाई वालादकराणि। पार्थिवानि पृथिवीबहुलपञ्चभूतविकारात्मकानि शरीरादीनि द्रव्याणि। उपचयो वृद्धिः । सङ्घातः समूहः। आप्यान्यबहुलपञ्चभूतात्मकानि उपक्लेदो द्रवीकरणं स्नेहः स्निग्धख बन्धः संश्लेषः विष्यन्दः स्रावः। आग्नेयानि दाहपाकप्रभाप्रकाशवर्णकराणि। वायव्यानि रौक्ष्यग्लानिविचारवैशदालाघवकराणि। प्रभा शरीरस्य दीप्तिः, प्रकाशो जाज्वल्यम्। विचारः प्रचरणमितस्ततो भ्रमणम् । आकाशात्मकानि मार्दवशौषिय्यलाघवकराणि। अनेनोपदेशेन नानौषधीभूतं जगति किञ्चिद् द्रव्यमुपलक्ष्यते। शौषियं' शुषिरता छिद्रमिति यावत् । अनेन पार्थिवादुरपदेशेन कर्मोपदेशेन च जगति किञ्चिदपि द्रव्यमनौषधीभूतं नोपलक्ष्यते। सर्व द्रव्यमेवौषधीभूतमित्यर्थः । इति पाश्चभौतिकभेदेन कार्यमुक्तं यथा तथा रसभेदादपि द्रव्याणां
For Private and Personal Use Only