________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पन्नादिकं कथदादा पुनदत्तमन्नाने न
६८
चरक-संहिता। [ दोघजीवितीयः जनयन्ति, श्राद्धादौ तु पुत्तादिदत्तमन्नादिकं कथ पितर्युपतिष्ठते इत्यत आह। तदुष्टभोजने न विद्यते। तत् श्राद्धादौ पुत्तदत्तमन्नादिक यत्पितयु पतिष्ठते तददुष्टानां पात्रानधिकारिणां ब्राह्मणानां भोजने न विद्यते ; तथा स्वभावात्। ननु के दुष्टा इत्यत आह । दुष्ट हिंसायाम् । हिंसायामित्युपलक्षणात्। अवैधहिंसादिनिषिद्धकम्र्मसु कृतेषु दुष्ट भवति । तस्य समभिव्याहारतो दोषः। तस्य निषिद्धकर्मकृतवतः समभिव्याहारत एकपङ्क्तिभोजनादिकृतवतो दोषः स्यात् । तददुष्ट न विद्यते। तदुष्टव पापं नादुष्ट शास्त्रविहिते कम्मणि विद्यते। अदुष्टे किं स्यादित्यत आह । पुनविवशिष्टपत्तिः। श्राद्धादौ यदादुष्टभोजनादि स्यात् तदा विशिष्ट- . प्रवृत्तियथाशास्त्रीयफलोदयः स्यादिति। कस्य श्राद्धादौ भोक्तव्यं तदाह । समे होने वा प्रवृत्तिः। समे वर्णतो धर्मादितश्च समाने जने श्राद्धादौ भोजनादिकं कर्त्तव्यमापदि होने वा। तथा विरुद्धानां त्यागः। विरुद्धानां शास्त्रविहिताचारविरुद्धानां श्राद्धभोजनादौ त्यागः काय्यः। हीने परत्यागः । हीनवण धर्मादिके आपदापि परस्य शत्रोः श्राद्धादिभोजनादौ त्यागः काय:। सम आत्मत्यागः परत्यागो वा। समे स्वसदृशे शत्रौ खल्यात्मीयेऽपि त्यागः श्राद्धभोजनादित्यागः काय्य : शत्रोरपि चान्नभोजनादित्यागः काय । विशिष्ट आत्मत्यागः । विशिष्टे परे शत्रौ तु श्राद्धभोजनादिकर्मण्यात्मत्यागः स्यादिति। ननु दृष्टादृष्टप्रयोजनानां मध्ये किं प्रयोजनमभ्युदयार्थं भवतीत्यत आह । दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय । दृष्टादृष्टप्रयोजनानां मध्ये दृष्टप्रयोजनाभावेऽभ्युदयायादृष्टप्रयोजनं स्यात्। दृष्टप्रयोजनानि कृषिबाणिज्यराजसेवादीनि। अदृष्टप्रयोजनानि यागदानब्रह्मचर्यादीनि । अदृष्टप्रयोजनान्याह । अभिषेचनोपवासब्रह्मचय्य गुरुकुलवासवानप्रस्थयशदानप्रोक्षणदिङ नक्षत्रकालनियमाश्चादृष्टाय । अभिषेचनं तीर्थस्नानम् । उपवासो व्रतम्। ब्रह्मचर्य सामान्यत एव ब्रह्मचर्याश्रमविहिताचारः। गुरुकुले वासो ब्रह्मचर्याश्रमः । वानप्रस्थ आश्रमः । यज्ञोऽश्वमेधादिः। दानं गोहिरण्यादिदानम्। प्रोक्षण
वचनो दृश्यते-“प्रवृत्तिस्तु चेष्टा कार्यार्था सैव क्रिया प्रयत्नः काय्यसमारम्भश्च” इति वचनात् ॥२१॥
For Private and Personal Use Only