________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः
सूत्रस्थानम् ।
७६७ निद्रायत्त सुखं दुःखं पुष्टिः काश्यं बलावलम् । वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥ २२ ॥ अकालेऽतिप्रसङ्गाच न च निद्रा निषेविता। सुखायुषी न वा कुर्यात् कालरात्रिरिवागता ॥ सैव युक्ता पुनर्युक्त निद्रा देहसुखायुषा। पुरुषं योगिनं सिद्धया सत्या बुद्धिरिवागता ॥ २३ ॥
भूतांस्तु भूतात्मा खपतः प्रभुः। रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान्॥ करणानान्तु वैकल्ये तमसाभिप्रवर्द्धिते । अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते॥" इति । अस्वपन्निति वैकल्याभिप्रायेण प्रसुप्त इति । तैजसतामसाहङ्कारयोगाभिप्रायेणोक्तम् ।।२०।२१॥
गङ्गाधरः-अथ निद्राफलमाह-निद्रायत्तमित्यादि। निद्रायत्तं सुखं दुःखमित्यादि भावाभावरूपं निद्रायाः समयोगायोगमिथ्यायोगातियोगयुक्ताया आयत्तमधीनम्। तत्र समयोगयुक्त निद्रायत्तानि सुखपुष्टिवलपताज्ञानजीवितानि भवन्ति। इतराणि दुःखादीनि मिथ्यायोगादियुक्तनिद्रायत्तानि भवन्तीत्यर्थः। न चेत्यजीवितमल्पजीवितञ्च ॥२२॥
गङ्गाधरः- प्रतिलोमतन्त्रयुक्त्या तदद्वयमुदाहरति-अकालेऽतीत्यादि । अकाले इति दिनाद्यविहितकाले निपविता निद्रा मिथ्यायोगयुक्ता भवति। अतिप्रसङ्गात् निषेविता निद्राऽतियोगयुक्ता भवति। न च निषेविता निद्रा अयोगयुक्ता भवति। एषा त्रिविधा निद्रा सुखायुषी नैव कुर्यात् । वाशब्द एवार्थे । कालरात्रिः काल एव यम इति यावत् । अथवा सकलकालिकी निद्रा कालरात्रिः । सैवेति निद्रा युक्ता समयोगयुक्ता सुखायुषा सुखेनायुषा च पुरुष युक्ते। योगिनं योगवन्तं यथा सत्या बुद्धिस्तत्त्वज्ञानम् ॥ २३॥
चक्रपाणिः-सम्प्रति विधिना सेविताया निद्राया गुणम् अविधिना च दोषमाह-निद्रायत्तमित्यादिना न चेत्यन्तेन । अत्र च सुखादि विधिसेवितनिद्राफलम्, दुःस्वादि त्वविधिनिद्राफलम्। एतदेव विभजते--अकाल इत्यादि। अकाल इति दिनादौ निद्रां प्रति निषिद्धे काले। अनेन च मिथ्यायोगो निद्राया उक्तः, कालरात्रिः कालोषा, सत्या बुद्धिस्तत्ज्ञानम् ॥ २२-२३॥,
For Private and Personal Use Only