________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६६
चरक-संहिता। (अष्टौनिन्दितीयः एकोनविंशतिमुस्वः प्रविविक्तभुक् तैजसो द्वितीयः पादः। यत्र सुप्तो न कञ्चन कामं कामयते न च कञ्चन स्वप्न पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रशानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राशस्तृतीयः पादः।” इत्यादि। सुषुप्तिकाले केवलमनोमात्रयुक्तखात् तदितरतत्त्वानां लयात् पुनर्जन्मान्तरसंस्कारतः सव्वेतत्त्वसम्पूणः स एव जीव इति बुद्धिमान जागरितः स्यात् । उक्तं हि कैवल्योपनिषदि-“स एव माया परिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियान्नपानादिविचित्रगोगैः स एव जाग्रत् परितृप्तिमेति ॥ स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके । सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ पुनश्च जन्मान्तरकम्मयोगात् स एव जीवः स इति प्रबुद्धः ॥” इत्यादि । प्रथमः पादस्तु जागरितस्थान आत्मा । तमाश्रमाद्यभावे सत्त्वोद्रेकात् तमसात्ममनःस्थानहृदयावरणाभावेन उद्रिक्तसत्त्वेन प्रकाशात् सात्त्विकाहङ्कारोद्रेकः। प्रवर्तको हि सत्त्वम् । अतस्तेन चोद्रिक्तसात्त्विकाहङ्कारेण प्रवत्तेकेनात्मा मनश्चेतयितुमर्हन मनश्चेतयति । तच्चेतितश्च मनः श्रोत्रादीनां स्वस्वस्थानेषु गन्तुमहेत् गच्छच्च श्रोत्रादीनि चेतयिखा स्वस्वकर्ममृपयुक्त। प्रयोजितानि पुनः श्रोत्रादीनि स्वस्वविषयान् गृह्णन्तीति जागरणं सात्त्विकाहङ्कारात्मसंयोगः। तस्य लिङ्गानि वाहेन्द्रियकर्माणि। माण्डूक्येऽप्युक्तं-"जागरितस्थानो वहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः॥” इति । सुश्रुतेऽप्युक्तं"तद्धदयं विशेपेण चेतनास्थानम् । अतस्तस्मिंस्तमसाटते सर्वप्राणिनः स्वपन्ति। भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् । जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥ निद्रान्तु वैष्णवीं पाप्मानमुपदिशन्ति । सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति । तत्र यदा संज्ञावहानि स्रोतांसि तमोभूयिष्ठः श्लेष्मा प्रतिपद्यते तदा तामसी नाम निद्रा सम्भवत्यनववोधिनी सा प्रलयकाले। तमोभूयिष्ठानामहःसु निशासु च भवति । रजोभूयिष्ठानामनिमित्तम्। सत्त्व. भूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणामनिलबहुलानां मनःशरीराभितापवताश्च नैव सा वैकारिकी भवति। भवन्ति चात्र। हृदयं चेतनास्थानमुक्तं सुश्रत देहिनाम् । तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनाम् ॥ निद्राहेतस्तमः सत्त्वं बोधने हेतुरुच्यते। स्वभाव एव वा हेतुर्गरीयान् परिकीत्त्यते ॥ पूर्वदेहानुआत्मानः क्लान्ता भवान्त, मनोऽधीनप्रवृत्तित्वादात्मनां, ततश्च मनोनिवृत्त्या आत्मानोऽपि न विषयान् गृह्णन्ति, इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव न प्रवर्त्तन्ते ॥ २१ ॥
For Private and Personal Use Only