________________
Shri Mahavir Jain Aradhana Kendra
२१श अध्यायः )
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
७६५
आत्मबुद्धयहङ्काराणां व्यवच्छेदः । वाह्यानां दशानामिन्द्रियाणाञ्च ग्रहणम् । मनसश्च क्लान्तिः स्वस्थानस्य हृदयस्य तमसावरणेन निमीलनाद्भवति । मनसश्च सर्व्वेन्द्रियाणां चेष्टापत्येयस्य क्रमात् सव्वन्द्रियाणां लमो निश्चेष्टता भवति । सुतरां सव्वन्द्रियाणि विषयेभ्यो निवर्त्तन्ते । यतः स राशि पुरुषस्य स्वापो निद्रेत्यर्थः । समनस्केन्द्रियाणां विषयतो निवृत्तिस्तु राशिपुरुषस्य वस्तुतो निद्रा । किन्तु राशिपुरुषस्य सर्व्ववान्द्रियाणां विषयतो निवृत्त्यां नानुमीयते आत्मनो निद्रा । सा चात्मनि नीरजस्तमोऽन्यतरसंयोगः तैजसतामसाहङ्कारान्यतरसंयोग इति यावत् । तत्संयोगे तु हेतुस्तम आत्ममनःस्थानचं ममनोदेहश्रमादिः । तमःश्लेष्मादिना हि उद्रिक्तरजस्क केवलान्यतरत्वेन तमस उद्रेकात् सत्त्वस्य लाघवादुद्रिक्तरजस्केन केवलेन वोद्रिक्तेन तमसा हृदयावरणम् । हृदयावरणेन हि मनश्चेतयितुमात्मा नालं भवति, चैतन्या - भावात् प्रकाशाभावाच्च । सक्रियमपि मनो वाह्ये न्द्रियाणां स्थानेषु न गन्तुमर्हति । नातश्चेन्द्रियाणि स्वस्वविषयेषु प्रयोक्तुमर्हति । ततश्चेन्द्रियाणि न स्वविषयान ग्रहीतुमर्हन्ति । सुतरां विषयेभ्यो निवर्त्तन्ते इति । वाहेन्द्रियाणां विपयतो निवृत्त्या मानवानां वाहेन्द्रियकाय्येशाने कर्माभावेनानुमीयते आत्मनो राजसतामसाहङ्कारान्यतरयोगः । सा च निद्रा द्विधा । तत्र तैजसाहङ्कारयोगः स्वमः । तामसाहङ्कारयोगः सुषुप्तिः । अत्र तु निद्रा सुप्तिः सुषुप्तिश्रोच्यते । तयोस्तमोभवेत्यादिना विवरणात् स्वमस्य पुनरिन्द्रियस्थाने विवरितव्यत्वम् । “ मनोवहानां पूर्णत्वात् दोपरतिबलैस्त्रिभिः । स्रोतसां दारुणान् स्वान् काले पश्यति दारुणे । नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा । इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा ।। दृष्टं श्रुतानुभूतञ्च प्रार्थितं कल्पितं तथा । भाविक दोपजञ्चैव स्वप्नं पञ्चविधं विदुः ||" इत्यादि । तत् स्वप्नदर्शनस्य विवरणं न तु स्वप्नस्य निद्रारूपस्य । गुप्तिसुषुप्त्योलिङ्गन्तु देहिनो बुद्धिम्मेन्द्रियकार्याभावः । तत्र बुद्धिम्मेन्द्रियाणां नातिकाभावः स्वप्नस्य लिङ्गम् । अतिशयेन काय्र्याभावस्तु सुप्तः । श्वासोच्छ्रासप्राणापानादिकन्तु न बुद्धिम्मेन्द्रियाणां कार्यम् । आत्मलिङ्गत्वादात्मकार्य्यं सुखादिवत् । उक्तं हि माण्डूक्योपनिपदि "स्वप्नस्थानोऽन्तः प्रज्ञः सप्ताङ्ग क्लान्त इति निष्क्रिये, कर्मात्मान इतीन्द्रियाणि कुमान्विताः क्रियारहिताः, विषयेभ्यो रूपादिभ्यः, मनसोऽप्रवृत्त्येन्द्रियाण्यपि न प्रवर्त्तन्त इति भावः तदा स्वपितीति स्वप्नगुणयुक्तो भवति, स्वप्नश्च निरिन्द्रियप्रदेशे मनोऽवस्थानम्; किंवा कर्मात्मान इति संसार्थ्यात्मानः । मनसि लाग्ते
For Private and Personal Use Only