________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः
सूत्रस्थानम्।
७६१ वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च । रुक्षोष्णा वस्तयस्तोष्णा रुक्षाण्युद्वत्तेनानि च ॥ गुडचीभद्रमुस्तानां प्रयोगस्त्र फलस्तथा।
तक्रारिष्टप्रयोगश्च प्रयोगो मानिकस्य च ॥ श्लेष्मसंसृष्टमेदस्त्वादिष्टमित्यतः प्रशातिकायवादीनामतपणानां संस्कारेण च गुरूणां लघुत्वं विधाय भोजनम् । तथा गुरूणां संस्कारेणातपणत्वं विधाय भोजनं स्थलानां कर्षणं प्रतीष्ट भवति । अतिस्थूलस्य ज्वरादो व्याधौ दुरुपक्रमखात । न हि तस्य सन्तपेणं स्थौल्यकरखाद्धितम् । नाप्यतपणमतिद्धाग्निवायुखात सह्य स्यादिति । कृशानां हणार्थ लघु यदव्यं भवति अग्निकरत्वा तदतिकृशस्याल्पाग्नित्वादिष्टमपि तचाहणवान चेष्टं गुरुत्वहणमिष्टमग्निवलापेक्षया देयम् । यच्च सन्तर्पणं द्रव्यं तदपि पुष्टिकरत्वादिष्टमित्यर्थः । इत्यञ्च गुरुत्वापतर्पणखोभयं यत्र तदिष्ट स्थौल्ये । लघुतासन्तपणत्वोभयं यत्र तदिष्ट कार्श । एवं सति स्वभावगुरुद्रव्यं संस्कारेणापतपणं कृत्वा स्थौल्ये स्वभाव लघु च द्रव्यं संस्कारेण लघु च कृत्वा स्थालये प्रयोक्तव्यम् । तथा का स्वभाव लघु यद्रव्यं तत् संस्कारेण सन्तर्पणं कृत्वा स्वभावगुरु च यदद्रव्यं तदपि संस्कारेण गुरु कृत्वा प्रयोजयेदित्यर्थः । लघुत्वस्यापतर्पणत्वं गुरुत्वस्य सन्तपणत्वमिति । तत्रादो स्थौल्ये गुरु चातपणं कपणमिति सूत्रं विटणोत्यत्रैव चिकित्सास्थाने विवरणानभिप्रायात् ॥ १७॥
गङ्गाधरः ---वातघ्नत्यादि। वातनानीति गुरुस्निग्धोष्णानि। श्लेष्ममेदोहराणीति रुक्षोणलपनि च अन्नपानानीत्यन्वयः । एतदपि भाष्यरूपेण सूत्रम् । "रुक्षोप्णा वस्तयस्तीक्षणाः" इति वस्तितिहराणामिति वचनात् स्नेहद्रव्यनिर्मितखाद्वस्तेः सर्वस्या एव । सति च वातहरत्वे तीक्ष्णरुक्षोष्णद्रव्ययोगेण तथाखविधानान्मेदःश्लेष्महरखं बोध्यम् । एवं रुक्षद्रव्यकृतोद्वत्तेनश्च जलोपसेकेन गुरुवात् वातहरखापतपणखश्च बोध्यम् । गुड्चीभद्रमुस्तानां प्रयोगस्त्रिदोषहरखात लाघवादग्निवृद्धिकरं सन्तर्पणत्वाच्च पुष्टिकृत् ; एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तम् । तेन मेदस्विनो यल्लघु चातर्पणं प्रशातिकाप्रियङ्गादि, तच्च कर्त्तव्यम् । तथा कृशस्यापि नवान्नादि गुपि सन्तर्पण कर्तव्यम् । परं लाघवं गौरवञ्च तत्संस्कारादिना प्रतिकर्त्तव्यम् ॥ १७ ॥
चक्रपाणिः-माक्षिकस्येति मधुनः, न च मधुनो वृष्यप्रयोगेषु दृरत्वाद बृहणत्वं वाच्यम, यतः योगवाहि मधु यदा वृष्येण युज्यते तदा वृष्यत्वं करोति, लेखनयुक्तन्तु लेखनकरम, तथा
For Private and Personal Use Only