________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६२
चरक-संहिता। (अष्टौनिन्दितीयः विडङ्ग नागरं क्षारं काललोहरजो मधु। यवामलकचूर्णस्य प्रयोगः श्रेष्ठ उच्यते ॥ विल्वादिपञ्चमूलस्य प्रयोगः चौद्रसंयुतः। शिलाजतुप्रयोगश्च साग्निमन्थरसः परः ॥ प्रशातिका प्रियङ्ग श्च श्यामाका यवका यवाः। जूर्णाद्वाः कोद्रवा मुद्गाः कुलत्थाश्च मुकुष्टकाः ॐ ॥
आढकीनाञ्च वीजानि पटोलामलकः सह । भोजनार्थ प्रयोज्यानि पानञ्चानु मधूदकम् ॥ अरिष्टांश्चानुपानार्थ मेदोमांसककापहान् ।
अतिस्थौल्यविनाशाय प्रविभज्य प्रयोजयेत् ॥१८॥ तथा त्रैकलप्रयोगोऽपि तथा तक्रारिष्टनयोगश्च । माक्षिकस्य मधुनः प्रयोगस्तु तस्य योगवाहित्वन कृप्यायोगे दृष्टत्वेऽपि केवलस्य वृप्यखाभावात् स्वभावेन रौक्ष्यादिगुणयोगाच्च कर्पणमिति चोध्या। उक्तं हि “नानाद्रव्यात्मकखाच योगवाहि परं मधु ॥” इति । विड़ादीनान्त्वोपधिद्रव्याणां गुरुखाभावेऽपि प्रभावात् स्थौल्यकर्षणखम् । काललौहरजातीक्ष्णलोहस्य जारितमारितचूर्णः । मधु इति पुनः पाठात् विड़ादीनां सहयोगेन प्रयोगो बोध्यः । पूर्व हि केवलस्य माक्षिकस्य प्रयोग उक्तः। विल्वादिलोद्रसंयुत इत्येको योगः। प्रयोगः सततोपसेवनमित्यर्थः। शिलाजखित्यारभ्य साविमन्थरस इत्यन्तोऽत्रैको योगः । अथ गुरु चापतपणसमाह-प्रसातिरेत्यादि । प्रसातिका ओडिधान्यमिति लोके प्रसिद्धा। प्रियश्चेति प्रियङ्गनामधान्यविशेषः। श्यामाका इति श्यामघासवीजानि। यवकाः खल्पयवाः। यवा हदयवाः प्रसिद्धाः । जूर्णाह्वा जुनारा इति लोके। आड़की तुवरी। मधूदकमिति मधुमिश्रोदकमित्यर्थः ॥१८॥ स्वरूपेणापि रुक्षादिगुणयोगात् कर्पणं, वचनं हि-"नानाद्व्यात्मकत्वाच्च योगवाहि परं मधु ।" विडङ्गादिप्रयोगो गौरवनिरपेक्ष एवातिस्थौल्यहरः प्रभावात् । प्रशातिका उडिकेति प्रसिद्धा यवकाः स्वल्पयवाः, चक्रमुद्गक ऋषिमुद्गक इति प्रसिद्धः, आड़की तुवरी ॥ १८॥ * कुलत्थाश्चक्रमुद्गका इति चक्रस्वीकृतः पाठः ।
For Private and Personal Use Only