________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६०
चरक संहिता |
सममांसप्रमाणस्तु समसंहननो नरः । न्द्रियविकाराणां न बलेनाभिभूयते ॥ १५ ॥ चुत्पिपासात सहः शीतव्यायामसंसहः । समपक्ता समजरः सममांसचयो मतः ॥ १६ ॥ गुरु चातपञ्चेष्टं स्थूलानां कर्षणं प्रति । कृशानां वृंहणार्थन्तु लघु सन्तर्पणान्तु यत् ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ अष्टौनिन्दितीयः
नतु अतिकृशमतिपीडयेत् । अतिकुशस्य गमनागमनादिष्वतिस्थूलतः किञ्चि दधिकयोग्यत्वात् । सन्तपणापतर्पणादिषु च किञ्चित् क्षमलम् । समोपकरणवञ्चानयोः अतिव्यायामव्यवाय क्षुत्पिपासातिशीतोष्णत्वासत्वम् ॥ १४ ॥
गङ्गाधरः -- निन्दित पुरुषप्रसङ्गात् प्रशस्त पुरुषं दर्शयति - समेत्यादि । कश्चिदत्र "मांसशब्देनोपचयः स्तविपर्ययश्च विवक्षितस्तेन समयुपचयस्य प्रमाणं यस्य स तथा" इति व्याचष्ट, तन्न ; अतिदीर्घादेः समोपचयप्रमाणत्वेऽपि निन्दितत्वात् । वस्तुतस्तु समे मांसप्रमाणे यस्य स तथा, मांसस्य समत्वं यथायोग्यं नातिस्थौल्यं नातिकाश्यमित्यर्थः । प्रमाणस्य समत्वं नातिदैर्ध्य नातिस्वत्वं यथायोग्यमित्यर्थः । समसंहननः समं यथायोग्यं शरीरमांसादीनां सन्निवेशो नातिशैथिल्यं नातिदाढ्य मित्यर्थः । दृढेन्द्रिय इति दृढ़दृष्ट्यादिः । तथा सति स नरो देहे जातानां विकाराणां वलेन नाभिभूयते । तथा क्षुधादिसहस्यात् । समपत्तादिश्च मतः ।। १५/१६ ।।
गङ्गाधरः- अतिस्थूलस्य यत् कर्षणमुक्तमतिकृशस्य च य हणमुक्तं तयोः सूत्र आह- गुरु चेत्यादि । स्थौल्ये तीक्ष्णाग्नित्वप्रभूतको वायुत्वाभ्यां गुरुद्रव्यं यदतर्पणं तदिष्टमप्यपोषकत्वात् कर्षणं स्यात् । न तु यद्रव्यं सन्तर्पणं तद्ष्टंहणं कृशानां भवति । अतर्पणमिति येन न तृप्तिः स्यात् तदतर्पणम् । तर्पणद्रव्यञ्च
For Private and Personal Use Only
चक्रपाणिः सम्प्रति प्रशस्तपुरुषमाह - समेत्यादि ।
मांसशब्देनेोपचयस्तद्विपर्ययश्च विवक्षितः, तेन सममुपचयस्य प्रमाणं यस्य स तथा । संहननं मेलकः । अपरमपि सममांस प्रमाणगुणानाह--क्षुदित्यादि ॥ १५/१६ ॥
चक्रपाणिः -- एवं स्थूलकृशौ प्रतिपाद्य तयोर्योजनीयं भेषजमाह-गुर्व्वित्यादि । गुरु चातर्पणञ्च, यथा मधु। एतद्धि गुरुत्वाद् वृद्धमग्निं यापयति अतर्पणत्वान्मेदो हन्ति । एवं प्रशातिकाप्रभृतीनामतर्पणानां संस्कारादिना गुरुत्वं कृत्वा भोजनं देयम् । कृशानान्तु लघु तर्पण देयम्, तद्धि