________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१श अध्यायः }
सूत्रस्थानम् ।
नीहा कासः क्षयः श्वासो गुल्माशस्युदराणि च । कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः ॥ ११ ॥ शुष्क स्फिगुदरग्रीवो धमनी जालसन्ततः । वगस्थिशेषोऽतिकृशः स्थलपर्व्वा नरो मतः ॥ १२ ॥ सततं व्याधितावेतावतिस्थूलकृशौ नरौ । सततञ्चोपचय हि कर्षणैव हरपि ॥ १३ ॥ स्थterary ai air समोपकरणौ हि तौ । यदुप्रभो व्याधिरागच्छेत् स्थूलमेवातिपीडयेत् ॥ १४ ॥
1
For Private and Personal Use Only
१८६
कृशस्यातिस्थूलस्येव हेतून न दर्शितवान दौर्व्यव्यदोषस्य दृश्यमानत्वात् । अतिकृशस्यातिदौब्ल्ये यत्किञ्चिदाहारादेवातिगुर्व्वाहारा भवन्ति, सुतरां तीक्ष्णाग्निदोषा न भवन्ति इति भावः । प्रहादयश्व रोगा अतिकृशं धावन्ति ॥ ११ ॥
गङ्गाधरः-- अतिकृशस्य रूपमाह - शुष्क स्फिगित्यादि । स्थूलपर्व्वा स्थूलग्रन्थिः ।। १२ ।।
गङ्गाधर:- अनयोः क्रियासूत्रमाह- सततमित्यादि । सततं हि अतिस्थूले 'कषेणोपचारः । अतिकृशे सततं दृहणोपचारः कर्त्तव्यः । तत्र हेतुः सततं व्याधितावित्यादि । सततव्याधितत्वञ्चातिस्थलस्य देहस्य शैथिल्यादि । शुक्राल्पवदौर्बल्यदौगन्ध्यादित्वञ्च कृशस्य सततव्याधितत्वं व्यायामाद्यसहत्वम् ।। १३ ।।
1
गङ्गाधरः-- अनयोरप्यतिनिन्दितत्वं दशयति-- स्थौल्येत्यादि । स्थौल्यकाइये इति निर्द्धारणे सप्तमी । वरमिति किञ्चिदिष्टम् । वरत्वं दर्शयतिसमोपेत्यादि । हि शब्दों हेत्वर्थे । समोपकरणावपि तावुभौ अतिस्थूलातिकृशौ यस्मात् व्याधिः सहसा आगच्छेत् । आगच्छंश्च स्थूलमेवातिपीडयेत् । जनकं वीजम्, अनुशयोऽनुबन्धः । कृशस्य लक्षणम् - शुष्केत्यादि । त्वगस्थिशेष इति दृश्यते इति शेषः, स्थूलपर्व्वा स्थूलग्रन्थिः ॥ ९-१२ ॥
1
चक्रपाणिः- कर्पणैवृ हणैरिति यथासंख्यम् । वरमिति मनागिष्टम्, स्थूलमेवातिपीडयेदिति स्थूलस्य दुरुपक्रमत्वात् । यतः स्थूलस्य सन्तर्पणमतिस्थौत्यकरम्, अपतर्पणञ्चायं प्रवृद्धाग्नित्वान्न सोढुं क्षमः, अबले तु सन्तर्पणं योग्य मेवेति भावः ॥ १३ ॥ १४ ॥