________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७८६
चरक संहिता |
[ अष्टौनिन्दितीयः
तत्रातिस्थूलातिशयोभूय एवापरे निन्दित विशेषा भवन्ति । अतिस्थूलस्य तावदायुषो ह्रासो जरोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः नुदतिमात्र पिपासातियोश्चेति भवन्त्यष्टौ दोषाः । तदिदमतिस्थौल्यम् अतिसंपूरणाद्गुरुमधुर स्निग्धोपयोगात् अव्यवायात् अव्यायामाद दिवास्वप्ना हर्षनित्यत्वात् अचिन्तनादुवीजखभावाञ्च्चोपजायते ॥ ३ ॥
तस्य ह्यतिमात्र मेदखिनो मेद एवोपचीयते, न तथेतरे धातवस्तस्मादस्यायुषो ह्रासः । शैथिल्यात् सौकुमर्थ्याद गुरुत्वाच्च मेदसो जरोपरोधः । शुक्राल्पत्वान्मेदसावृतमार्गत्वाच्चास्य कुच्छ्रव्यवायता । दौव्र्व्वल्यमसमत्वाद्धातूनाम् । दौगन्ध्यन्तु मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वाच | मेदसः श्लेष्म
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः- अष्टसु मध्ये पुनरतिशयेन क्रियाविशेषोऽतिस्थौल्यातिकार्ययो निन्दितत्वं दर्शयितुमाह तत्रेत्यादि । भूय इति तदपेक्षयैव भूयिष्ठं यथा स्यात् तथाऽपरे निन्दितविशेषाः क्रियासु निन्दाविषयविशेषा भवन्ति । तानाह - अतिस्थूलस्येत्यादि । अष्टौ दोष इति निन्दित क्रियाविशेषहेतुत्वात् । अतिस्थौल्य हेतुमाह तदिदमित्यादि । वीगस्वभावादित्यतिस्थलमातापितृशोणितशुक्र स्वभावात् ॥ ३ ॥
गङ्गाधरः--एभ्यो हेतुभ्योऽतिस्थूलसोद्भवं तदोपजन्ममकारवाह - तस्य ह्यतीत्यादि । अतिमात्रमेदखिन इति वचनार्थेदि एवोपचीयत इत्यादि । तस्मादतिमेदस एवातिक्रुद्धान्य शत्रूनामयथोपचयाद्विपमधातुखात्। दौच्चल्यश्चा
चक्रपाणिः -- तत्रातिस्थूलकृशयोश्चिकित्सोपयुक्त विशेषं वक्तुमाह – तत्रेत्यादि । भूय एवेत्यतिदीर्घादितुल्यलोक विगानादधिका निन्दिताश्च ते विशेषाश्चेति निन्दितविशेषाः । अतिस्थौल्यस्य हेतुमाह-- तदित्यादि । अति संपूरणमतिभोजनम् । वीजस्वभावादिति स्थूलमातापितृजन्यत्वात् । सम्प्रति स्थूलस्य साधारणादप्याहाराद् भूरिमे दोजन्माहइ-तस्य हीत्यादि । मेदस्विन इति हेतुगर्भविशेषणं तेन यस्मादतिस्थूलशरीरे मेदो देहव्यापकत्वेन लब्धवृत्त्यतस्तदेव प्रायो वर्द्धते, नान्ये रसादयस्तदभिभूनत्वादित्यर्थः । तस्मादिति विषमधातुत्वात् मेदोदोपादिति
For Private and Personal Use Only