________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकविंशोऽध्यायः। अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः॥ १ ॥ इह खलु शरीरमधिकृत्याष्टौ निन्दिताः पुरुषा भवन्ति, तद्यथा-अतिदीर्घश्चातिह्रस्वश्चातिलोमा चालोमा चातिगौरश्वातिकृष्णश्चातिस्थूलश्चातिकशश्चेति ॥ २॥
गङ्गाधरः-रोगनिरूपणानन्तरं भेषनरोगयोयथायोजनं कर्तव्यं तदुपदेष्टुं योजनाचतुष्कमारभते। तत्र प्रायेण व्याधिविशेष भेषजयोजनायां शरीरविशेषवापेक्षत इत्यतः इलैष्मिकनानात्मजेषु चातिस्थौल्यञ्चोक्तम् । तत्र भेषजयोजनार्थमष्टोनिन्दितीयमारभते-अथात इत्यादि। अस्याध्यायस्यादी अष्टो निन्दिताः पुरुषा भवन्ति इत्यस्य वाक्यस्याष्टोनिन्दितेतिपदमधिकृत्य कृतोऽध्याय इति तथा । सव्वं पूर्ववद् व्याखेश्यं भवति ॥१॥ ___ गङ्गाधरः --इह खलु भोः शरीरमधिकृत्याष्टो निन्दिताः पुरुषा भवन्ति । मनोऽधिकृत्य च ये निन्दिताः पुरुषाः खलशठादयस्तेऽस्मिंस्तन्त्रे शारीरव्याधिचिकित्साप्रधानखान्नोपदिष्टाः। अतिदीर्घादयः पड़िह निन्दिताः प्रस्तावात् शरीरनिन्दाधिकाराचोक्ताः कुब्जकाणभङ्गरादयश्चैकदेशनिन्दितखानोक्ताः। निन्दितवं न दृश्यलेन कुत्सितलम्, आकृतिसौष्ठवादतिदीर्घादीनामपि सौन्दर्य्यात् । किन्तु क्रियाविशेषेऽसाधुत्वम्। तथा सत्यतिदीर्घादीनां षष्णां कुत्रचिन क्रियाविशेषेऽसाधुत्वेनानतिनिन्दितखात् तद्दषणं नोक्तं तदुन्नयम् ॥ २ ॥
चक्रपाणि:--रोगचतुष्के रोगा उक्ताः, भेषजञ्च भेषजचतुष्के, रोगभेषजयोस्तु योजना यथा कर्तव्या तद् वक्तुं योजनाचतुष्कोऽभिधीयते ; सा च योजना रोगेण समं भेषजानां प्रायः शरीरमेवापेक्षत इति शरीरभेदप्रतिपादकोऽयौनिन्दतीयोऽभिधीयते ॥१॥ __ चक्रपाणिः-शरीरमधिकृत्येति वचनेन मनोऽधिकृत्य ये निन्दिता अधार्मिककदर्य्यादयः, तानिहानुपयुक्तान् निराकरोति ; अतिदीर्घादयश्च पड़िह निन्दितप्रस्तावादुच्यन्ते ; निन्दितत्वञ्च तेषां लोकविगानादेव ; अतिदीर्घश्चेत्यादिचकारः कुञादिनिन्दितग्रहणार्थम् ॥ २॥
९९
For Private and Personal Use Only