________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८४ चरक-संहिता।
[ महारोगः पृथकत्वेन च दोषारणां निर्दिष्टाः समुपक्रमाः। सम्यङ् महति रोगाणामध्याये तत्त्वदर्शिना ॥ २८ ॥
इति रोगचतुष्कः। इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने
महारोगो नाम विंशतितमोऽध्यायः ॥ २० ॥ इत्यारभ्य औरण्येत्यादिना पित्तस्य, पुनः सर्व वित्यारभ्य श्वैत्येत्यादिना कफस्य स्वकर्मणो रूपम्। पृथक् त्वेन दोषाणां समुपक्रमा इति तं मधुराम्लेत्यादिना वातस्य, पुनस्तं मधुरतिक्तत्यादिना पित्तस्य, पुनस्तं कटुतिक्तत्यादिना कफस्योपक्रमाः। रोगाणां महति अध्यायेऽस्मिन निर्दिष्टास्तत्त्वदर्शिना पुनर्वसुनेत्यर्थः ॥२६-२८॥ इति रोगचतुष्को रोगाणां विज्ञानायाध्यायचतुष्क इत्यर्थः । अध्यायं समापयति ---अग्नीत्यादि । महारोगाध्याय इति समाप्तिवचनम् । इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ मूत्र
स्थानीयमहारोगाध्याय जल्पाख्या विंशी शाखा ॥२०॥ तन्त्र विकाराः “विकाराः पुनः' इत्यादिना “मुखानि” इत्यादिना मुखम्, “द्वयोस्तु' इत्यादिना ईरणम्, असन्देहः “न चान्योन्य इत्यादिना, 'सर्वपु इत्यादिना अनुबन्धः, नानात्मजाः सर्वे दोषान्तरासंपृक्तदोषजन्या उक्ताः॥२६-२८॥
इति रोगचतुष्कः।
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेदीपिकायां सूत्रस्थान
व्याख्यायां महारोगो नाम विंशोऽध्यायः ॥ २० ॥
For Private and Personal Use Only